________________ 196 सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा | पापस्य आयासः पापायासः, न विद्यते पापायासो येषां ते अपापायासाः, अपापायासैः (आ) साद्यमाना अपापायासाद्यमाना / न विद्यते मदनो यस्य स अमदनः, तस्य सं० हे अमद्रन ! / सुधायाः सारं सुधासारम्, सुधासारवद् हृद्या सुधासारहृया / निर्वाणस्य मार्गो निर्वाणमार्गः, निर्वाणमार्गे प्रणयोऽस्ति येषाम् इति निर्वाणमार्गप्रणयिनः, निर्वाणमार्गप्रणयिभिः परिगता निर्वाणमार्गप्रणयिपरिगता / तीर्थस्य नाथः तीर्थनाथः, तस्य सं० हे तीर्थनाथ ! | पापं च आयासश्च पापायासौ, पापायासौ आदी येषां ते पापायासादयः, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, नास्ति मानो येषां ते अमानाः, नास्ति मदो येषां ते अमदाः, अपापायासादयश्च अमानाश्च अमदाश्च अपापायासाद्यमानामदाः, अपापायासाद्यमानामदैर्नतः अपापायासाद्यमानामदनतः, तस्य सं० हे अपापायासाद्यमानामदनत ! | वसुधायां सारः-प्रधानः वसुधासारः, तस्य सं० हे वसुधासार ! यद्वा हे अपाप ! हे अनायास (?) ! हे आद्यमान !-जगत्याद्यप्रमेयमहिमन् ! इत्यपि विशेषणत्रयी जिनसंबोधने पृथग विशेषणानि व्याख्येयानि / / इति तृतीयवृत्तार्थः / / 47 / / दे० व्या०-नित्यं हेतूपपत्तिरिति / हे तीर्थनाथ ! तीर्थं-चतुर्विधसङ्घः प्रथमगणधरो वा तेस्यामन्त्रणम् / ते-तव वाणी-भारती मे-मम हितानि-पथ्यानि नित्यम् अनवरतं यथा स्यात् तथा क्रियाद्दिश्यादित्यन्वयः / 'डुकृञ् करणे' धातुः / ‘क्रियात्' इति क्रियापदम् / का की ? / वाणी / कस्य ? | तव | कानि कर्मतापन्नानि ? / हितानि / कस्य ? / मे-मम / किंविशिष्टानि हितानि ? / आहितानिस्थापितानि / “स्थितं स्थापितमाहितम्” इत्यमरः (?) / कस्मिन् ? / हृदि-हृदये / किंविशिष्टा वाणी ? | 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तवन्धा' हेतवः-प्रमाणानि उपपत्तयः-युक्तयः, यद्वा हेतूनां उपपत्तयः ताभिः प्रतिहता-विध्वस्ता कुमतस्य प्रोद्धता-प्रोद्दामा ध्वान्तबन्धा-अज्ञानग्रन्थिः यया सा तथा / प्रोद्धता चासौ ध्वान्तवन्धेति पूर्वं कर्मधारयः' | पुनः किंविशिष्टा ? | ‘अपापायासाद्यमाना' अपगता अपायाःआपत्स्वरूपा यैस्तैः आसाद्यमाना-प्राप्यमाणा / पुनः किंविशिष्टा ? / 'सुधासारहृद्या' सुधायाः-अमृतस्य आसारो-वेगवान् वर्षः तद्वद् हृद्या-वल्लभा / “आसारो वेगवान् वर्षः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 79) / श्रूयमाणा अमृतमिव हृदयङ्गमेति तात्पर्यार्थः / पुनः किंविशिष्टा ? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्ग-वर्त्मनि प्रणयः-नेहो विद्यते येषां ते तथा तैः परिगताअङ्गीकृता / ‘अमदन !' इति / नास्ति मदनः-कन्दर्पो यस्य स तस्यामन्त्रणम् / ‘अपापायासाद्यमानामदनत !' इति / पापं च आयासादयश्च ते तथा, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, न विद्यते मानः-अहङ्कारो येषां ते तथा, न विद्यते मदनः-कन्दर्पो (मदः-दर्पो) येषां ते तथा, अपापायासादयः 1. आयासस्य स्थाने 'आय' शब्दस्य प्रयोगः कार्य इति प्रतिभाति / 'तस्य स्वामी तीर्थनाथः' इयदनुसन्धानमत्र पठितव्यम् /