________________ श्रीवासुपूज्यजिनस्तुतयः 195 निर्वाणमार्ग-प्रणयिनः, तैः परिगता-अङ्गीकृता / “निर्वाणं निर्वृतौ मोक्षे, विनाशे गजमज्जने” इत्यमरः (?) / अवशिष्टानि भगवतः सम्बोधनानि / तेषामर्थश्चैवम्-न विद्यते मदनः-मन्मथो यस्य स तथा तस्य सम्बोधनं हे अमदन !-मदनरहित ! / पापं-पातकं आयासः-खेदः पापं च आयासश्च पापायासौ 'द्वन्द्वः', तौ आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, न विद्यते मानं (नो) येषां ते अमानाःमानरहिताः, न विद्यते मदो येषां ते अमदाः-मदरहिताः,ततः अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नतः-वन्दितः, तस्य सम्बोधनं हे अपापायासाद्यमानामदनत ! / वसुधा-पृथ्वी तत्र सारः-श्रेष्ठः तस्य सम्बोधनं हे वसुधासार ! / / 47 / / सौ० वृ०-नित्यं हेतूपपत्तीति / हे तीर्थनाथ !-तीर्थस्वामिन् ! / हे अमदन !-अकाम ! / हे अपापायासाद्यमानामदनत ! गतपाप आयासः-श्रमः तदादि अमानो-निरभिमानः अमदः-अदर्पितः नतः प्रणतः इत्यर्थः / तस्य सं० हे 'अपापायासाद्यमानामदनत !' / हे 'वसुधासार !' पृथिवीप्रधान ! / तवभवतः वाणी-भारती मे-मम हितानि-पथ्यानि क्रियादित्यन्वयः / ‘क्रियात्' इति क्रियापदम् / का की ? / 'वाणी' भारती / ‘क्रियातू' कुर्यात् / कानि कर्मतापन्नानि ? / 'हितानि' पथ्यानि / कस्य? / 'मे' मम / कथम् ? / 'नित्यं' सदा / किंविशिष्टानि हितानि ? / 'आहितानि' स्थापितानि / कस्मिन् ? / 'हृदि' चित्ते / किंविशिष्टा वाणी ? / हेतवः-लिङ्गगमकाः उपपत्तयः-दृष्टान्ताः तैः प्रतिहतं-निराकृतं कुमतं-कुत्सितशासनं तदेव प्रोद्धतं-प्रकर्षेण उद्दामं ध्वान्तं-अन्धकारं यदनादिमिथ्यात्वरूपं तस्य बन्धोग्रन्थिकाभेदलक्षणो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' / पुनः किं० वाणी ? / अपगताः पापायासा येभ्यः ते तैः / साधुभिरित्यध्याहार्यम् / (आ) साद्यमाना स्वाद्यमाना (?) अपापायासाद्यमाना' / पुनः किंविशिष्टा वाणी ? | सुधा-अमृतं तस्य ‘आसारो-रसः “आसारो वेगवान् वर्षः” (अभि० का० 2, श्लो०) तद्वद् हृद्या-मनोज्ञा ‘सुधासारहृद्या' / पुनः किं० वाणी ? / निर्वाणमार्गो-मोक्षमार्गः सम्यक्ज्ञानदर्शनचारित्रलक्षणः तस्मिन् प्रणयः-स्नेहो येषां ते तादृशा ये साधवस्तैः परिगता-व्याप्ता 'निर्वाणमार्गप्रणयिपरिगता' | एतादृशी जिनवाणी मे-मम हितानि-अभीष्टानि कुर्यात् / इति पदार्थः / / अथ समासःहेतवश्च ते उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनां उपपत्तयः-प्राप्तयः हेतूपपत्तयः, हेतूपपत्तिभिः प्रतिहतं हेतूपपत्तिप्रतिहतम्, कुत्सितं मतं कुमतं [तदेव ध्वान्तं कुमतध्वान्तम्], प्रकर्षण उद्धतं प्रोद्धतम्, प्रोद्धतं च तद् ध्वान्तं च प्रोद्धतध्वान्तम्, कुमतस्य प्रोद्धतध्वान्तं कुमतप्रोद्धतध्वान्तम्, (हेतूपपत्तिप्रतिहतं च तत् कुमतप्रोद्धतध्वान्तं हेतू०), हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तस्य बन्धो यया 1. अयं पाठो निरर्थकः प्रतिभाति /