________________ 194 शोभनस्तुति-वृत्तिमाला 444 हेतूपपत्ति० तत्पुरुषः' / अपगतोऽपायो येषां ते अपापायाः 'तत्पुरुषः' / अपापायैरासाद्यमाना अपापा० 'तत्पुरुषः' / यद्वा अपगतोऽपायो यस्याः सा अपापाया 'तत्पुरुषः' / न विद्यते मदनों यस्य सोऽमदनः 'तत्पुरुषः' / तत्सम्बो० हे अमदन ! / सुधाया आसारः सुधासारः 'तत्पुरुषः' / सुधासार इव हृद्या सुधा० 'तत्पुरुषः' / निवार्णस्य मार्गो निर्वाणमार्गः 'तत्पुरुषः' / प्रणयोऽस्त्येषां ते प्रणयिनः ('बहुव्रीहिः') / निर्वाणमार्गस्य प्रणयिनो निर्वाण० 'तत्पुरुषः' / निर्वाणमार्गप्रणयिभिः परिगता निर्वाण० 'तत्पुरुषः' / तीर्थस्य नाथस्तीर्थनाथः 'तत्पुरुषः' / तत्सम्बोधनं हे तीर्थ० / पापं च आयासश्च पापायासौ ‘इतरेतरद्वन्द्वः' / पापायासावादौ येषां ते पापायासादयः ‘बहुव्रीहिः' / न विद्यन्ते पापायासादयो येषां ते अपापाया० 'बहुव्रीहिः' / न विद्यते मानं येषां ते अमानाः ‘बहुव्रीहिः' / न विद्यते मदो येषां ते अमदाः / ततोऽपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापा० 'कर्मधारयः' / अपापायासाद्यमानामदैर्नतः अपापायासा० 'तत्पुरुषः' / तत्सम्बो० हे अपापाया० / वसुधायां सारो वसु० 'तत्पुरुषः' / तत्सम्बो० हे वसु० / / इति काव्यार्थः / / 47 / / - (2) सि० वृ०-नित्यं हेतूपपत्तीति / तीर्थं-चतुर्विधः सङ्घः प्रथमगणधरो वा तस्य नाथः-स्वामी तस्य सम्बोधनं हे तीर्थनाथ ! तव-भवतः वाणी-वाग् मे-मम हितानि-कल्याणानि नित्यं-सदा क्रियाद्-विधेयाद् इत्यर्थः / 'डुकृञ् करणे' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / ‘यादादौ' (सा० सू० 814) इति ऋकारस्य रिङादेशः / तथा च ‘क्रियात्' इति सिद्धम् / अत्र ‘क्रियात्' इति क्रियापदम् | का की ? वाणी / कानि कर्मतापन्नानि ? / हितानि / कस्य ? / मे / वाणी कस्य ? / तव / कथंभूतानि हितानि ? / आहितानि-स्थापितानि / कस्मिन् ? हृदये / चित्तेप्सितानीति फलितार्थः / कथंभूता वाणी ? / 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवः-साध्यगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्च उपपत्तयश्च हेतूपपत्तयः ‘इतरेतरद्वन्द्वः', यद्वा हेतूनामुपपत्तयः हेतूपपत्तयः, ताभिः प्रतिहतोनिराकृतः कुमतरूपः प्रोद्धतध्वान्तबन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा / तथा प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः, कुमतमेव प्रोद्धत० कुमत० इति ‘कर्मधारयः' / पुनः कथंभूता ? / 'अपापायासाधमाना' अपगतः अपायो विघातो येषां ते अपापायाः, तैः आसाद्यमाना-प्राप्यमाणा / केचित् तु अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् / तथा चायमर्थः-अपगतः अपायो यस्याः सा (अपापाया), आसाद्यमाना साधुभिरित्यध्याहियत इति वदन्ति / पुनः कथंभूता ? | ‘सुधासारहद्या' सुधायाः-अमृतस्य आसारः वेगवदृष्टि: तद्वद् हृद्या-मनोज्ञा / श्रूयमाणा अमृतमिव हृदयङ्गमैति फलितार्थः / “आसारो वेगवान् वर्षे (का० र, श्लो० 79) इति हैमः / पुनः कथंभूता ? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्गः-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते