________________ श्रीवासुपूज्यजिनस्तुतयः 193 जिनवाण्याः स्वरूपम्नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धाऽ पापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि / वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि // 3 // 47 // - स्रग्० ज० वि०-नित्यं हेतूपपत्तीति / हे तीर्थनाथ !-तीर्थपते ! तव-भवतः वाणी-वाग् मे-मम हितानिपथ्यानि नित्यं-सदा क्रियाद्-विधेयादिति क्रियाकारकसम्वन्धः / अत्र ‘क्रियात्' इति क्रियापदम् / का की ? 'वाणी' / कानि कर्मतापन्नानि ? 'हितानि' / कस्य ? 'मे' / वाणी कस्य ? 'तव' / हितानि कथंभूतानि ? 'आहितानि' स्थापितानि / कस्मिन् ? 'हृदि' मानसे / चित्तेप्सितानीत्यर्थः / वाणी कथंभूता ? 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तवन्धा' हेतवो-वस्तुगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्च उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनामुपपत्तयो हेतूपपत्तयः, ताभिः प्रतिहतः-प्रतिषिद्धः कुमतरूपः प्रोद्धतध्वान्तवन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा तथा / पुनः कथं० ? 'अपापायासाद्यमाना' / अपगतोऽपायो-घातो येपां ते तथा तैरासाद्यमाना प्राप्यमाणा / अथवा अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् / तथा चायमर्थः-अपगतोऽपायो यस्याः सा तथा आसाद्यमाना / साधुभिरित्यध्याहियते / पुनः कथं० ? 'सुधासारहृद्या' सुधा-पीयूषं तस्या आसारो-वेगवान् वर्षस्तद्वद् हृद्या-मनोज्ञा / पुनः कथं० ? 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणमार्गा-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते तथा तैः परिगता-समाश्रिता, स्वीकृतेत्यर्थः / अवशिष्टानि तीर्थनाथस्य सम्वोधनानि, तेषां व्याख्या यथा-हे 'अमदन !' मदनरहित ! / हे 'अपापायासाद्यमानामदनत' ! पापं-पातकं आयासः-खेदः तौ आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, अमाना-मानरहिताः अमदामदरहिताः, ततो अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नत !-वन्दित ! / हे 'वसुधासार !' वसुधा-पृथ्वी तत्र सार !-उत्कृष्ट ! / / अथ समासः-हेतूनामुपपत्तयः (हेतूपपत्तयः) 'तत्पुरुषः' / (हेतवश्च उपपत्तयश्च हेतूपपत्तयः 'इतरेतरद्वन्द्वः') / ध्वान्तस्य बन्धो ध्वान्तवन्धः 'तत्पुरुषः' / प्रोद्धतश्चासौ ध्वान्तवन्धश्च प्रोद्धतध्वान्तवन्धः ‘कर्मधारयः' / कुमतमेव प्रोद्धतध्वान्तवन्धः कुमतप्रो० 'कर्मधारयः' / प्रतिहतः कुमतप्रोद्धतध्वान्तबन्धो यया सा प्रतिहत० 'बहुवीहिः' / हेतूपपत्तिभिः प्रतिहतकुमतप्रोद्धतध्वान्तबन्धा