________________ 192 शोभनस्तुति-वृत्तिमाला सुगतचरणसंस्पर्शनादिति भावः / किंविशिष्टा ततिः ? / 'जैनराजी' जिनराजानामियं जैनराजी / पुनः किंविशिष्टा ? | ‘यातापत्त्रासमाना' आपद्-विपत्तिः त्रासः-आकस्मिकं भयं मानः-स्मयः एतेषां पूर्वं 'द्वन्द्वः', ततो याता-गता आपत्त्रासमाना यस्या इति 'बहुव्रीहिः' / पुनः किंविशिष्टा ? 'हारतारा' / हारा:मुक्तावल्यः तद्वत् तारा-निर्मला / पुनः किंविशिष्टा ? / अरता-अप्रतिबद्धा / पुनः किंविशिष्टा ? / राजयन्ती-शोभां लम्भयन्ती / (पुनः) किंविशिष्टा ? | ‘अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशः दमःउपशमः यस्याः सा / पुनः किंविशिष्टा ? / 'जयन्ती' अभिभवन्ती / कया ? / कान्त्या प्रभया / कस्याः ? / कीर्तेः-यशसः / / इति द्वितीयवृत्तार्थः / / 46 / / ध० टीका-पूतो यदिति / 'पूतः' पवित्रः / 'यत्पादपांशुः' यस्याश्चरणरेणुः / 'शिरसि' मूर्धनि / 'सुरततेः' त्रिदशराज्याः / ‘आचरत्' कृतवान् / 'चूर्णशोभा' वासक्षोदश्रियम् / 'या' / 'तापत्रा' तापात् कृतत्राणा | ‘असमाना' अनन्यसदृशी / 'प्रतिमदं' प्रतिगतमदं, निर्मदमित्यर्थः / ‘अवति' रक्षति / ‘इह' अत्र / 'अरता' अप्रतिबद्धा / ‘राजयन्ती' शोभया लम्भयन्ती / 'कीर्तेः' यशसः / ‘कान्त्या' प्रभया करणभूतया / 'ततिः' श्रेणी / 'सा' / प्रविकिरतुतराम्' अतिशयेन निरस्यतु / 'जैनराजी' जिनराजसम्वन्धिनी / 'रजः' कर्म / 'ते' भवतः / यातापत्त्रासमाना' यातः-अपगतः आपच्च त्रासश्च मानश्च यस्याः सा / ‘अप्रतिमदमवती' अप्रतिमः-अनन्यतुल्यो दमो विद्यते यस्याः सा / ‘हारतारा जयन्ती' हाराःमुक्तावलीः ताराः-नक्षत्राणि ताः जयन्ती-न्यक्कुर्वाणा / यत्पादपांशुः चूर्णशोभामाचर या राजयन्ती सती अप्रतिमदमवती सा जैनराजी ततिः कीर्तेः कान्त्या हारतारा जयन्ती रजस्तें प्रविकिरतुतरामिति सम्बन्धः / अथवा कीर्तेः कान्त्या हेतुभूतया हारतारोज्ज्वला जयन्ती-विपक्षान् अभिभवन्तीति व्याख्येयम् / / 46 / / अवचूरिः पूतः-पवित्रो यत्पादपांशुः-चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभां-वासक्षोदलक्ष्मी प्राप्तवान् / या ततिस्तापत्रा-तापभेत्री / असमाना-गुणैरनन्यसदृशी / प्रतिमदं-प्रतिगतमदं-निर्मदमवति-रक्षति / इह अरता-अप्रतिबद्धा / राजयन्ती-शोभा लम्भयन्ती / सा तती रजः-कर्म ते-तव प्रविकिरतु-क्षपयतु / किंविशिष्टा ? / जिनराजानामियं जैनराजी-तीर्थकरसंबन्धिनी / अप्रतिमो दमो यस्याः सा अप्रतिमदमवती / याता-गता आपद्-विपत्, त्रासस्त्वाकस्मिकं भयम्, मानो-गर्यो यस्याः सा / कीर्तेः कान्त्या जयन्ती-अभिभवन्ती / काः ? / हारताराः-मुक्तावलीनक्षत्राणि / / 46 / /