________________ श्रीवासुपूज्यजिनस्तुतयः __ 191 संसारसंतापात् त्रायते-रक्षति इति 'तापत्रा' / पुनः किं० जैनराजी ? / 'असमाना' अनन्यसाधारणा / पुनः किं कुर्वती जैनराजी ? / 'अवती' रक्षती / कं कर्मतापन्नम् ? / 'अप्रतिमदं’ साधुजनमित्यर्थः / पुनः किं० जैनराजी ? / 'अरता' अकामा / पुनः किं० जैनराजी ? / 'राजयन्ती' शोभमाना / कया ? / 'कान्त्या' प्रभया / कस्याः ? / 'कीर्तेः' यशसः / पुनः किं० जैनराजी ? / याता-गता आपद्-विपत् त्रासं-आकस्मिकं भयं मानः-अहङ्कारो यस्याः सा ‘यातापत्त्रासमाना' / पुनः किं० जैनराजी ? / अप्रतिमः-अनुपमो दमः-इन्द्रियजयो यस्याः सा ‘अप्रतिमदमवती' / पुनः किं० जैनराजी ? | ‘जयन्ती' जित्वरशीला। काः कर्मतापन्नाः ? | हारो-निर्मलमौक्तिकस्रगपः तारा-नक्षत्रश्रेणिः ता हारतारा निष्कलङ्क: नैर्मलत्वात् (?) / इति पदार्थः / / ____ अथ समासः यस्य पादौ यत्पादौ, यत्पादयोः पांशुः यत्पादपांशुः / सुराणां ततिः सुरततिः, तस्याः सुरततेः / चूर्णस्य शोभा चूर्णशोभा, तां चूर्णशोभाम् / या इति प्रत्यक्षदृश्यमाना ततिविशेषणम् / तापात् त्रायते तापत्रा / न विद्यते समानः-सदृशो यस्याः सा असमाना / अप्रतिमं अभयं (?) ददातीति, अप्रतिमदः, तं अप्रतिमदम् / यद्वा नास्ति कं प्रति मदो यस्य सः अप्रतिमदः, तं अप्रतिमदम् / न विद्यते रतं सुरतं यस्याः सा अरता / जिनानां राजा इति जिनराजः, जिनराजस्य इयं जैनराजी / आपच्च त्रासश्च मानश्च आपत्त्रासमानाः, याता-गता आपत्त्रासमाना यस्याः सा यातापत्त्रासमाना / न प्रतिमः अप्रतिमः, अप्रतिमश्चासौ दमश्च अप्रतिमदमः, अप्रतिमदमो विद्यते यस्याः सा अप्रतिमदमवती / हारवत् ताराउज्ज्वला हारतारा, यद्वा हाराश्च ताराश्च हारताराः, ता हारताराः / एतादृशी जैनराजी ततिः ते-तव कर्मरजः अतिशयेन क्षिपतुतराम् / / इति द्वितीयवृत्तार्थः / / 46 / / (4) ... दे० व्या०-पूत इति / सा जैनराजी ततिः ते-तव रजः-कर्म नितरां-अतिशयेन प्रविकिरतु(तरां)विक्षिपतु इत्वन्वयः / 'कृ विक्षेपे' धातुः / 'प्रविकिरतु(तरां)' इति क्रियापदम् / का कर्जी ? / ततिः / किं कर्मतापन्नम् ? / रजः / कस्य ? / ते-तव / यत्तदोर्नित्याभिसम्बन्धाद् या इह-अस्मिन् लोके तापत्राज्वरच्छेत्री असमाना-अनन्यसदृशी गुणैरिति शेषः / प्रतिमदं-गतदर्प अर्थात् साधुजनम् अवति-रक्षति / अवति' इति क्रियापदम् / का की ? / या / कं कर्मतापन्नम् ? / प्रतिमदम् / यत्पादपांशुः सुरततेः शिरसि चूर्णशोभा आचरत्-प्राप्तवान् / ‘चर गतिभक्षणयोः' इति धातुः / ‘आचरत्' इति क्रियापदम् / कः कर्ता ? / यत्पादपांशुः-यस्याः चरणरेणुः / “स्यु—लीपांसुरेणवः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 36) / कां कर्मतापन्नाम् ? | चूर्णशोभां-वासलक्ष्मीम् / “वासयोग्य(ग)स्तु चूर्णं स्यात्” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 301) / कस्मिन् ? / शिरसि-मस्तके / कस्याः ? / सुरततेःदेवसमूहस्य / सुराणां ततिरिति विग्रहः तस्याः / किंविशिष्ट: पादपांशुः ? / पूतः-पवित्रः /