________________ शोभनस्तुति-वृत्तिमाला 190 +++++++++++++++++++++++++ 'वावसाने' (सा० सू० 240) दस्य तः / तथा च 'आचरत्' इति क्रियापदम् / कः कर्ता ? / यत्पादपांसुः। “रेणुर्द्वयोः स्त्रिया धूलिः, पांसुर्ना न द्वयो रजः” इत्यमरः (श्लो० 1664) / कां कर्मतापन्नाम् ? / चूर्णशोभाम् / कस्मिन् ? शिरसि / कस्याः ? / 'सुरततेः' सुराणां ततिः सुरततिः तस्याः सुरततेः 'तत्पुरुषः' / यतः यत्पादपांसुः कथंभूतः ? / पूतः-पवित्रः / चूर्णं तावत् पूर्त-पवित्रं भवति अयमपि च विशेषोऽस्तीति भावः / पुनर्यच्छब्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदं-मदेन रहितं, मदस्योपलक्षणत्वात् मदोपलक्षितैर्मदनादिभिः रहितं साधुजनमित्यर्थः, अवति-कर्मशत्रुभ्यो रक्षति, मोक्षं प्रापयतीत्यर्थः / अव रक्षणे' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप्। 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘अवति' इति सिद्धम् / अत्रापि ‘अवति' इति क्रियापदम् / का कर्ची ? / या / कं कर्मतापन्नम् ? / अप्रतिमदम् / कुत्र ? / इह / या किं कुर्वती सती ? / राजयन्ती-शोभा लम्भयन्ती / भव्यानित्यर्थसामर्थ्याद् गम्यते / पुनः किं कुर्वती सती ?।जयन्तीन्यक्कुर्वन्ती / काः ? / 'हारताराः' हाराः-मुक्तावल्यः ताराः-नक्षत्राणि, हाराश्च ताराश्चेति 'द्वन्द्वः' ताः / कया करणभूतया कृत्वा ? / कान्त्या-प्रभया / कस्याः ? / कीर्तेः-यशसः / अथवा कीर्तेः कान्त्या हेतुभूतया हारतारा-हारोज्ज्वला जयन्ती-पराभवन्ती / विपक्षानित्यध्याहारः / या कथंभूता ? / 'तापत्रा' तापात् त्रायत इति तापत्रा / पुनः कथंभूता ? / 'असमाना' नास्ति समानः-सदृशो यस्याः सा असमाना / पुनः कथंभूता ? / 'अरता' नास्ति रतं-सुरतादिकं सुखं यस्याः सा तथा, रागरहिता विरक्तेतियावत् / पुनः कथंभूता ? / 'यातापत्त्रासमाना' आपद्-विपत् त्रासः-आकस्मिकं भयं, मानः-अभिमानः, आपच्च त्रासश्च मानश्च आपत्त्रासमानाः 'इतरेतरद्वन्द्वः', ततो याता-गता आपत्त्रासमाना यस्याः सा तथा / पुनः कथंभूता ? / 'अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशो यो दमः-इन्द्रियनियन्त्रणं उपशमो वा यस्या अस्तीति अप्रतिमदमवती / / 46 / / (3) . सौ० वृ०-पूत इति / सा जैनराजी ततिः ते-तव रजः-पापम् इह-संसारे प्रविकिरतुतरामित्यन्वयः / 'प्रविकिरतुतराम्' इति क्रियापदम् / का की ? / 'ततिः' श्रेणिः / प्रविकिरतुतरां' अतिशयेन विक्षिपतुइतस्ततो नाशं प्राप्नुयात् / किं कर्मतापन्नम् ? | ‘रजः' बध्यमानः कर्ममलः पापं वा / कस्य ? / 'ते' तव / किंविशिष्टा ततिः ? / 'जैनराजी' जिनराजसंबन्धिनीत्यर्थः / पुनः किंविशिष्टा ततिः ? / 'सा' प्रसिद्धा / सा का ? / यत्पादपांशुः-यच्चरणरेणुः सुरततेः-सुरसमूहस्य शिरसि-मस्तके चूर्णशोभा आचरत् इत्यन्वयः / 'आचरत्' इति क्रियापदम् / कः कर्ता ? / 'यत्पादपांशुः' / ‘आचरत्' अधारयत् / कां कर्मता-पन्नाम् ? / 'चूर्णशोभा' वासक्षोदक्षेपशोभाम् / कस्मिन् ? / 'शिरसि' मस्तके / कस्याः ? / 'सुरततेः' देवश्रेण्याः / किंविशिष्टो यत्पादपांशुः ? / 'पूतः' पवित्रः / किंविशिष्टा जैनराजी ? / तापात्