________________ श्रीवासुपूज्यजिनस्तुतयः 189 कर्मतापन्नाः ? 'हारताराः' हाराः-मुक्तावल्यः ताराः-नक्षत्राणि / कया करणभूतया कृत्वा ? 'कान्त्या' प्रभया / कस्याः ? 'कीर्तेः' यशसः / अथवा कीर्तेः कान्त्या हेतुभूतया / 'हारतारा' हारोज्ज्वला / 'जयन्ती' पराभवन्ती / विपक्षानित्यध्याहारः / या कथंभूता ? 'तापत्रा' तापात् त्रायत इति तापत्रा / पुनः कथं० ? 'असमाना' अनन्यसदृशी / पुनः कथं० ? 'अरता' विरक्ता रागरहितेत्यर्थः / यद्वा रतं-सम्भोगस्तन्न विद्यते यस्याः सा तथा / पुनः कथं० ? 'यातापत्त्रासमाना' आपद-विपत् वासस्तु आकस्मिकं भयं मानःअहङ्कारः, ततो याता-गता आपत्त्रासमाना यस्याः सा तथा / पुनः कथं० ? अप्रतिमदमवती' अप्रतिमःअनन्यसदृशो यो दम-उपशमः स यस्या अस्तीति अप्रतिमदमवती / / अथ समासः यस्याः पादौ यत्पादौ 'तत्पुरुषः' / यत्पादयोः पांसुर्यत्पाद० 'तत्पुरुषः' / सुराणां ततिः सुरततिः 'तत्पुरुषः' / तस्याः सुर० / चूर्णस्य शोभा चूर्णशोभा 'तत्पुरुषः' / तां चूर्ण० / तापात् त्रायत इति तापत्रा 'तत्पुरुषः' | न समाना असमाना 'तत्पुरुषः' / न विद्यते प्रतिमदो यस्याऽसौ अप्रतिमद: ‘वहुव्रीहिः' / तं अप्रतिमदम् / न रता अरता 'तत्पुरुषः' / यद्वा न विद्यते रतं यस्याः सा अरता ‘बहुव्रीहिः' / आपच्च त्रासश्च मानश्च आपत्त्रासमानाः ‘इतरेतरद्वन्द्वः' / याता आपत्त्रासमाना यस्याः सा याताप० बहुव्रीहिः / न विद्यते प्रतिमो यस्य सोऽप्रतिमः ‘बहुव्रीहिः' / अप्रतिमश्चासौ दमश्च अप्रतिमदमः ‘कर्मधारयः''। अप्रतिमदमोऽस्या अस्तीति अप्रतिमदमवती 'मान्तोपधाद् वत्विनौ' (सा० सू० 624) इति वतुप्प्रत्ययः / हाराश्च ताराश्च हारताराः 'इतरेतरद्वन्द्वः' / ता हारताराः / अथवा हारवत् तारा हारताराः 'तत्पुरुषः' / / इति काव्यार्थः / / 46 / / सि० वृ०-पूत इति / हे भव्य ! प्राणिन् ! सा जिनराजानामियं जैनराजी जिनराजसम्बन्धिनीत्यर्थः ततिः-श्रेणिः ते-तव रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्वित्यर्थः / प्रपूर्वक ‘क विक्षेपे' धातोः 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'ऋत इरः' (सा० सू० 820) इतीर् / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रविकिरतु' इति सिद्धम् / अत्र ‘प्रविकिरतुतरां' इति क्रियापदम् / का कर्जी ? / ततिः / किंसम्बन्धिनी / जैनराजी / किं कर्मतापन्नम् ? / रजः / “रजः स्यादातवे शुभे / रजः परागे रेणौ च रजं च परिकीर्तितम्” इति विश्वः / “रजोऽयं रजसा साधु, स्त्रीपुष्पगुणधूलिषु” इति अजयः / कस्य ? / ते / षष्ठ्येकवचनमिदम् / कुत्र ? / इह / सेति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पङ्क्तेः शिरसि-मस्तके चूर्णशोभां-वासक्षोदश्रियम् आचरत्-प्राप्तवानित्यर्थः / सुरततेर्नमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति भावः / ‘चर गतिभक्षणयोः' इति धातोर्लङि अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिवादावट्' (सा० सू० 707), 'अप्०' (सा० सू० 691),