________________ 188 शोभनस्तुति-वृत्तिमाला कामस्तद्भवं यद्यं तस्मात् / हे श्रीप्रभव ! लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा / आली किं कुर्वाणा ? / बिभ्रती-दधती / कम् ? / आयासं दुःखं श्रमं वा / सारवा प्रारब्धस्तुतित्वात् सशब्दा | असौ प्रत्यक्षा / अनवरतं-अजसं रसायां-पृथिव्यां लीना वालाः-केशा यस्याः सा / एतेन भक्त्याधिक्यं सूचितम् / नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् / अहो इत्यामन्त्रणे / / 45 / / ... जिनराज्य प्रार्थनापूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभां या तापत्राऽसमानाऽप्रतिमदमवतीहारता राजयन्ती / कीर्तेः कान्त्याः ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते.. यातापत्त्रासमानाऽप्रतिमदमवती हारतारा जयन्ती // 2 // 46 // जयन्ती / . - सग० (1) ज० वि०-पूत इति / हे भव्य ! प्राणिन् ! सा जैनराजी-जिनराजसम्बन्धिनी जिनराजानामियं जैनराजीति व्युत्पत्तेः / ततिः-श्रेणी / ते-तव / रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्विति क्रियाकारकसम्बन्धः / अत्र ‘प्रविकिरतुतराम्' इति क्रियापदम् / का कर्जी ? 'ततिः' / किंसम्वन्धिनी ? 'जैनराजी' / किं कर्मतापन्नम् ? 'रजः' / कस्य ? 'ते' / कुत्र ? 'इह' / सेति तच्छब्दसाहचर्याद्यच्छन्दघटनामाह-यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पङ्क्तेः शिरसि-मस्तके चूर्णशोभा-वासक्षोदश्रियं आचरत्कृतवान् प्राप्तवानित्यर्थः / सुरततेनमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति हृदयम् / अत्रापि 'आचरत्' इति क्रियापदम् / कः कर्ता ? ‘यत्पादपांसुः' / कां कर्मतापन्नाम् ? 'चूर्णशोभाम्' | कस्मिन् ? 'शिरसि' / कस्याः ? 'सुरततेः' / यतः यत्पादपांसुः कथंभूतः ? 'पूतः' पवित्रः / चूर्णं तावत् पवित्रं भवति अयमपि च पवित्रोऽस्तीति भावः / पुनर्यच्छन्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदं मदेन रहितं मदस्योपलक्षणत्वान्मददोषलक्षितैर्मदनादिभिरपि रहितं साधुजनमित्यर्थः अवति कर्मशत्रुभ्यो रक्षति, मोक्षं प्रापयतीत्यर्थः / अत्रापि च ‘अवति' इति क्रियापदम् / का की ? 'या' / कं कर्मतापन्नम् ? 'अप्रतिमदम्' / कुत्र ? 'इह' / या किं कुर्वती सती ? 'राजयन्ती' शोभां लम्भयन्ती / भव्यानित्यर्थः सामर्थ्याद गम्यते / पुनः किं कुर्वती ? 'जयन्ती' न्यककुर्वन्ती / काः 1. 'दपांशुः' इति पाठान्तरम् / 2. 'ना प्रति०' इत्यपि पाठः /