________________ श्रीवासुपूज्यजिनस्तुतयः 187 इति / नास्ति माया-निकृतिः यस्य स तस्यामन्त्रणम्, कषायादीनां सर्वथोच्छिन्नत्वात् / ‘असंसारवास!' / इति / नास्ति संसारे वासो वसनं यस्य स, तस्यामन्त्रणम्, अपुनर्भवावस्थितत्वात् / यथा (दा) अमायासंसारवासेत्येकमेव पदं तथा (दा) च नास्ति माया संसारे वासो यस्येत्यर्थो बोध्यः / 'अवन !' इति / अवतीत्यवनः तस्यामन्त्रणम्, षड्जीवनिकायाभयदायकत्वात् / अन्ये तु मायासंसारवासाभ्यां सकाशात् अवतीत्येकमेव पदम् [निगदन्ति] / हे वर !-प्रधान ! / केन ? / तरसा-बलेन वेगेन वा / 'नवालानबाहो !' इति, नवं-प्रत्यग्रं यदालानं-गजबन्धनस्तम्भः तद्वद् बाहुः-भुजो (बाहू-भुजौ) यस्य स तस्यामन्त्रणम् / एतानि सर्वाणि भगवतः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 45 / / ध० टीका-पूज्येति / 'पूज्य !' अर्चनीय ! / 'श्रीवासुपूज्य !' श्रियोपलक्षितवासुपूज्यनामन् ! / 'अवृजिन !' अपकल्मष ! / 'जिनपते !' जिनेन्द्र ! / 'नूतनादित्यकान्ते !' नवार्कद्युते ! / “पउमाभवासुपूज्जा रत्ता” इत्यागमात् / ‘अमाय ! मायामुक्त ! / 'असंसारवासावन ! / न संसारवासं-भवावस्थानमवतीत्यसंसारवासावनस्तस्यामन्त्रणम् / 'वर !' प्रधान ! 'तरसा' बलेन, वेगेन वा / 'आली' पङ्क्तिः / 'नवालानबाहो !' नवः-प्रत्यग्रो य आलानः-करिबन्धनस्तम्भस्तद्वत् बाहू यस्य तस्यामन्त्रणम् / ‘आनम्रा' आनमनशीला / 'त्रायतां' रक्ष्यताम् / 'श्रीप्रभव !' सम्पदुत्पत्तिस्थान ! / 'भवभयात्' संसारत्रासात् / 'बिभ्रती' दधाना | भक्तिभाजां' आराधकानाम् / 'आयासं' श्रमम् / ‘सारवा' सशब्दा, प्रस्तुतस्तुतिरित्यर्थः / असाविति प्रत्यक्षनिर्देशः / 'अनवरतरसालीनवाला' अनवरतं-अजसं रसायां क्षितौ आलीनाआश्लिष्टा वालाः-केशा यस्याः सा / अनेन भक्त्यतिशयं सूचयति / नवा-अभिनवा कतिपयदिनप्राप्तबोधिः अस्मद्विधेत्याकूतम् / 'अहो' इत्यामन्त्रणे / अहो श्रीवासुपूज्य ! जिनपते ! आयासं बिभ्रत्यसौ नवा भक्तिभाजामाली तरसा भवभयात् त्रायतां इति सम्बन्धः / / 45 / / अवचूरिः हे पूजनीय ! हे श्रीवासुपूज्य ! हे अवृजिन ! हे जिनपते ! भक्तिभाजां जनानामाली-श्रेणिस्त्वया त्रायतां-रक्ष्यताम् / नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद् रक्ता कान्तिर्यस्य तस्य संबोधनम् / हे अमाय !-अदम्भ ! / हे असंसारवास ! मुक्तौ प्राप्तत्वात् / हे अवन !-रक्षक ! / हे वर ! प्रधान ! / केन ? / तरसा-बलेन वेगेन वा / यद्वा मायासंसारवासाभ्यां सकाशादवति-रक्षत्तीति / नवालानवद् बाहूभुजौ यस्य तस्य संबोधनम् / आली किंभूता ? | आनम्रा-कृतप्रणामा / कस्मात् त्रायताम् ? / श्रीप्रभवः१. पद्माभवासुपूज्यौ रक्तौ (आवश्यक-निर्युक्तो, गा० 376) /