________________ 186 शोभनस्तुति-वृत्तिमाला जिनपतिः, तस्य सं० हे जिनपते ! / नूतनश्चासौ आदित्यश्च नूतनादित्यः, नूतनादित्यवत् कान्तिः यस्य स नूतनादित्यकान्तिः, तस्य सं० हे नूतनादित्यकान्ते ! / नास्ति माया यस्य सः अमायः, तस्य सं० हे अमाय ! / संसरणं-भ्रमणं संसारः, संसारस्य वासः संसारवासः, न विद्यते संसारवासो यस्य सः असंसारवासः, तस्य सं० हे असंसारवास ! / यद्वा मायासंसारवासौ न विद्यते यस्य सः अमायासंसारवासः, तस्य सं० हे अमायासंसारवास ! / अवन्ति ते अवनाः, अवनेषु वरः अवनवरः, तस्य सं० हे अवनवर ! / “तरसाऽव्ययं बले वेगे” इति कोशः / नवश्चासौ आलानश्च नवालानः, नवालानवद् बाहू यस्य स नवालानबाहुः, तस्य सं० हे नवालानबाहो ! / नमनशीला नम्रा, आ-समन्तात् नम्रा आनम्रा / श्रीणां प्रभवः श्रीप्रभवः, तस्य सं० हे श्रीप्रभव ! / भवस्य भयं भवभयं, तस्मात् भवभयात् / बिभर्ति सा विभृतिः / भक्तिं भजन्ति इति भक्तिभाजः, तेषां भक्तिभाजाम् / आरवेण सहिता सारवा / रसायां आलीना रसालीना, अनवरतं-निरन्तरं रसालीना आवली यस्याः सा अनवरतरसालीनवाली / यद्वा श्रियाः प्रभवः-पुत्रः श्रीप्रभवः, श्रीप्रभवात् भवं श्रीप्रभवभवं; श्रीप्रभवभवंचतत् भयं च श्रीप्रभवभवभयं, तस्मात् श्रीप्रभवभवभयात्-कामरागजनितभयात् / त्रायताम् इति कर्मोक्तिः / कर्मोक्तौ तृतीयान्तः कर्ता प्रथमान्तं कर्म क्रियायामात्मनेपदं भवतीति कर्मोक्तिलक्षणम् / वक्रोक्तिः अपरनाम / अस्यां स्तुतौ स्रग्धराच्छन्द: / / इति वृत्तार्थः / / 45 / / (4) .. दे० व्या०-पूज्य ! श्रीवासुपूज्येति / अहो इत्याश्चर्ये / हे श्रीवासुपूज्य ! त्वया भक्तिभाजांसपर्याकृतामाली-राजिः श्रीप्रभवभवभयात् त्रायतां रक्षतामित्यन्वयः / 'त्रै रक्षणे' इति धातुः / 'त्रायता' इति क्रियापदम् / केन का ? / त्वया / का कर्मतापन्ना ? / आली / केषाम् ? / 'भक्तिभाजाम्' भक्तिं सेवां भजन्तीति भक्तिभाजः तेषाम् / कस्मात् ? / 'श्रीप्रभवभवभयात्' श्रीप्रभवात्-कामाद् भवं-जातं यद् भयं-साध्वसं तस्मात् / यदा तु श्रीप्रभव ! इति पृथग् जिनामन्त्रणं तदा श्रियो-लक्ष्म्याः प्रकर्षेण भवःउत्पत्तिर्यस्मात् स तथेत्यर्थः बोध्यः / किंविशिष्टा आली ? / आनम्रा-कृतप्रणामा / पुनः किंविशिष्टा ? | 'सारवा' आरवेण-शब्देन सह वर्तमाना, प्रारब्धस्तुतित्वात् / पुनः किंविशिष्टा ? / असौ-प्रत्यक्षदृश्या / पुनः किंविशिष्टा ? / 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां लीना-लग्ना वालाः केशा यस्याः सा तथा / पुनः किंविशिष्टा ? | नवा-कतिपयदिनप्राप्तबोधिः / पुनः किंविशिष्टा ? / विभ्रतीदधाना / किम् ? | आयासं-परिश्रमम् / 'पूज्य !' इति / पूजार्हः-पूज्यः, सर्वेभ्य उत्कृष्टत्वात् / अवृजिन !' इति / नास्ति वृजिनं-पापं यस्य स तस्यामन्त्रणम्, आश्रवद्वाराणां निरोधात् / ‘जिनपते !' इति / जिनानांसामान्यकेवलिनां पतिः-प्रभुः यः स तस्यामन्त्रणम्, तीर्थप्रवर्तकत्वात् / 'नूतनादित्यकान्ते !' इति / नूतनउद्गच्छन् य आदित्यः-सूर्यः तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणम्, रक्तवर्णशरीरत्वात् / ‘अमाय !' 1. भ्रान्तमिदम्, स्तुत्यां 'बिभ्रती' तिपाठः / 2. एतदपि अप्रस्तुतं स्तुत्यां ‘अनवरतरसालीनवाला' इति पाठात् /