________________ श्रीवासुपूज्यजिनस्तुतयः 185 इति विश्वः / हे 'नवालानबाहो !' नवो-नवीनः य आलानः-करिबन्धनस्तम्भः तद्वद् वाहू-भुजौ यस्य स तथा तस्य सं० हे नवालान० / “तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथ शृङ्खले” इत्यमरः (श्लो० 1549) / हे 'श्रीप्रभव !' श्रियो-लक्ष्म्याः प्रभवः-उत्पत्तिर्यस्मात् स तथा तस्य सं० हे श्रीप्रभव ! / अत्र नवेत्यत्र बवयोरैक्यम् / / 45 / / (3) सौ० वृ०-यः श्रेयांसो भवति स वासुपूज्यः-देवपूज्यो भवति / अनेन संबन्धेनायातस्य द्वादशश्रीवासुपूज्यजिन[स्य]स्तुतिव्याख्यानं व्याख्यायते / पूज्य ! श्रीवासुपूज्येति / हे 'पूज्य !' हे अर्चनीय ! श्रिया चतुस्त्रिंशदतिशयलक्ष्म्या युक्त ! वसुपूज्यनृपनन्दन ! हे 'श्रीवासुपूज्य' ! हे ‘अवृजिन !' हे पापरहित ! हे 'जिनपते !' जिनस्वामिन् ! नूतनः-नवीन उद्गत्वरो य आदित्यः-सूर्यः तद्वत् कान्तिःप्रभा यस्य स नूतनादित्यकान्तिः, तस्य सं० हे 'नूतनादित्यकान्ते !' उपमा ‘पउमप्पहवासुपुज्जा रत्ता' इति आगमवचनात् / हे 'अमाय !' निर्दम्भ ! / हे असंसारवास ! / यद्वा ('अमायसंसारवास !') मायासंसारवासरहित ! | हे 'अवनवर !' रक्षकप्रधान ! / नवं-नवीनं आलानं-हस्तिबन्धस्तम्भः युगं वा तद्वद् बाहू-भुजौ यस्य स नवालानबाहुः, तस्य संबो० हे नवालानबाहो !' / हे 'श्रीप्रभव !' सर्वलक्ष्म्युत्पत्तिस्थान ! / त्वया असौ-प्रत्यक्षदृश्यमाना भक्तिभाजां-भक्तिमतां प्राणिनाम् आलीश्रेणिर्भवभयात्-संसारभीतेः सकाशात् त्रायताम् इत्यन्वयः / ‘त्रायताम्' इति क्रियापदम् / केन क; ? 'त्वया' भवता / 'त्रायतां' रक्ष्यताम् / का कर्मतापन्ना ? | ‘आली' श्रेणिः / केषाम् ? / 'भक्तिभाजाम्' / कस्मात् ? / 'भवभयात्' / कथम् ? | 'तरसा' बलेन वेगेन वा / किंविशिष्टा भक्तिभाजामाली ? / अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-लुठिता वालाः-केशा यस्याः सा ‘अनवरतरसालीनवाला' भगवत्पादप्रणतत्वात् / अत्र यमकत्वात् बवयोरैक्यम् / पुनः किंविशिष्टा भक्तिभाजामाली ? / 'नवा' प्रत्यग्रा अस्मदादिवत् शीघ्रबोधप्राप्ता / (पुनः किं० आली ? / 'आनम्रा' कृतप्रणामा | पुनः किं० आली ? / 'आयासं बिभ्रती' परिश्रमं दधाना) / 'अहो' इत्याश्चर्ये कोमलामन्त्रणे वा / पुनः किं० भक्तिभाजामाली ? / आरवः-शब्दस्तेन सहिता ‘सारवा' सशब्दा स्तुतिपरा इत्यर्थः / यद्वा श्रीः-लक्ष्मीः तस्याः प्रभवः-नन्दनः कामस्तस्माद् भवम्-उत्पन्नं यद् भयं तस्मात् श्रीप्रभवभवभयात् त्रायताम् / इति पदार्थः / / अथ समासः-वसुपूज्यस्यापत्यं वासुपूज्यः, श्रिया युक्तो वासुपूज्यः श्रीवासुपूज्यः, तस्य सं० हे श्रीवासुपूज्य ! | नास्ति वृजिनं-पापं यस्य सः अवृजिनः, तस्य सं० हे अवृजिन ! | जिनानां-केवलिनां पतिः 1. पद्मप्रभवासुपूज्यौ रक्तौ /