________________ 184 शोभनस्तुति-वृत्तिमाला तैः अभीक्ष्णं वासवो राजकुलं पूजितवानिति वा वासुपूज्यः तस्य संबोधनं हे वासुपूज्य ! / त्वया भक्तिभाजां-भक्तियुक्तानां असौ-प्रत्यक्षा आली-श्रेणिः तरसा-बलेन वेगेन वा भवभयात्-संसारभीतेःसकाशात् त्रायतां-रक्ष्यतामित्यर्थः / ‘त्रैङ्' धातोः कर्मणि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् / 'सन्ध्यक्षराणामा' (सा० सू० 803) इत्यात्वम् / 'यक् चतुर्यु' (सा० सू० 1169) इति यक् / तथा च‘त्रायताम्' इति सिद्धम् / अत्र 'त्रायताम्' इति क्रियापदम् / केन कर्ता ? | त्वया / का कर्मतापन्ना ? / आली / केषाम् ? / 'भक्तिभाजाम्' / भक्तिः-पूज्येष्वनुरागः श्रद्धा वा तां भजन्ति ये ते भक्तिभाजः तेषाम् / “श्रद्धारचनयोर्भक्तिः” इत्यमरः (?) / कस्मात् ? / 'भवभयात्' भवः-संसारः तस्य भयं-भीतिः तस्मात् / केन ? | तरसा / “तरसा बले च वेगे च” इति विश्वः / कथंभूता आली ? / असौ / अदस्शब्दस्य असौ रूपम् / अदसः ‘त्यादेष्टे:०' (सा० सू० 175) इत्यत्वे कृते अदो, ‘दस्यः मः' (सा० सू० 270) इति दकारस्य सत्वे, ‘सेरौ' (सा० सू० 305) इति सेरौकारादेशे च कृते ‘असौ' इति सिद्धम् / किं कुर्वती ? / बिभ्रती-धारयन्ती / किम् ? / आयासं-श्रमम् / अनवरतसंसारपरिभ्रमणोत्पन्नखेदं बिभ्रतीति फलितार्थः / पुनः कथंभूता ? / आनम्रा-आनमनशीला | पुनः कथंभूता ? / सारवा-सशब्दा, मधुरस्वरेण स्तुतिं कुर्वतीत्यर्थः / पुनः कथंभूता ? / 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-आश्लिष्टाः वालाः-केशा यस्याः सा / नमनसमये केशपाशस्य भुवि विलुठनेन तस्या भक्त्यतिशयो ध्वनितः / पुनः कथंभूता ? / नवा-कतिपयदिनप्राप्तबोधिः / अवशिष्टानि सर्वाणि श्रीवासुपूज्यस्य संबोधनपदानि / तेषां व्याख्या त्वेवम्-हे पूज्य !-हे पूजार्ह ! / 'ऋहलोर्ण्यत्' (पा० अ० 3, पा० 1, सू० 124) इति ण्यत् / 'चजोः कुघिण्यतोः' (पा० अ० 7, पा० 3, सू० 52) इति कुत्वप्राप्तौ 'त्यजिपूज्योश्च' न कुत्वं इति निषेधात् कुत्वाभावः / हे ‘अवृजिन !' नास्ति वृजिनं-पापं यस्य सः अवृजिनः तस्य संबोधनं हे अवृजिन ! आश्रवद्वाराणां निरोधात् / हे 'जिनपते !' जिनानां पतिः जिनपतिः तस्य० संबो० / हे 'नूतनादित्यकान्ते' ! नूतनः-तत्कालमुदयगिरिशृङ्गमारूढः, उद्गमन्नित्यर्थः, एतावता रक्तवर्णो य आदित्यः-सूर्यः तद्वत् कान्तिः-छविर्यस्य स तथा तस्य संबो० हे नूतनादित्य० / रक्तद्युतिरित्यर्थः / तथा चोक्तं-“रक्तौ च पद्मप्रभवासुपूज्यौ” इति हैम्यां नाममालायाम् / हे 'अमाय' ! न विद्यते माया-निकृतिर्यस्य स तथा तस्य संबोधनं हे अमाय ! / हे 'असंसारवासावन !' संसारे वसनंवासो रुचा अवस्थानं अवति-रक्षतीति संसारवासावनः, तादृशो न भवति सः असंसारवासावनः तस्य संबो० हे असंसार० / हे वर !-प्रधान ! / “वरोऽभीष्टे देवतादे-र्वरो जामातृशृङ्गयोः / श्रेष्ठेऽन्यवत्परिवृती, वरं कश्मीरजे मतम् // " 1. 'उद्गच्छन्' इत्यत्रोचितम् /