________________ श्रीवासुपूज्यज़िनस्तुतयः 183 सशब्दा / मधुरस्वरेण स्तुतिं कुर्वन्तीत्यर्थः / पुनः कथं० ? 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्याम् आलीना-आश्लिष्टा वालाः-केशा यस्याः सा तथा / एतावता आनम्रायाः सत्या एतस्याः केशपाशो भुवि लुठति / एतेन भक्तेरतिशयः समसूचि / पुनः कथं ? 'नवा' अभिनवा कतिपय दिनप्राप्तबोधिः अस्मदादिवत् / शेषाणि सर्वाण्यपि श्रीवासुपूज्यजिनेश्वरस्य सम्बोधनानि / तद्व्याख्या त्वेवम्-‘हे पूज्य !' अर्चनीय ! / हे ‘अवृजिन !' वृजिनं-पापं तेन रहित ! / हे 'जिनपते !' जिनेश्वर ! | हे 'नूतनादित्यकान्ते' ! नूतनो-नवस्तत्कालमुदयगिरिशृङ्गमाश्रित एतावता रक्तवर्ण एवंविधो य आदित्योरविस्तद्वत् कान्तिः-प्रभा यस्य स तथा / रक्तद्युतिरित्यर्थः / “पउमाभवासुपूज्जा रत्ता” इत्यागमात् (आवश्यकनियुक्तौ, गा० 376) / हे 'अमाय !' मायारहित ! / हे 'असंसारवासावन !' संसारवासंभवावस्थानं अवति-रक्षति स्वीकरोतीति यावत् स संसारवासावनः, तादृशो न भवति तत्सम्बो० हे असंसार० / हे 'वर ! प्रधान ! / हे 'नवालानबाहो' ! नवो-नवीनो य आलानः-करिबन्धनस्तम्भः तद्वद् वाहू-भुजौ यस्य स तथा, प्रबलप्रलम्बबाहुरित्यर्थः, तत्सम्बो० हे नवा० / - 'श्रीप्रभव !' सम्पदुत्पत्तिस्थानक ! / अत्र नवेत्यत्र ववयोरैक्यम् / / ___ अथ समासः-भिंयोपलक्षितो वासुपूज्यः श्रीवासुपूज्यः 'तत्पुरुषः' / तत्सम्बो० हे श्रीवा० / न विद्यते वृजिनं यस्य सोऽवृजिनः ‘बहुव्रीहिः' / तत्सम्बो० हे अवृजिन ! | जिनानां पतिर्जिनपतिः 'तत्पुरुषः' / तत्सम्वो० हे जिन० / नूतनश्चासावादित्यश्च नूत० 'कर्मधारयः' / नूतनादित्यस्येव कान्तिर्यस्य स नूत० 'वहुव्रीहिः' / तत्सम्बो० हे नूत० / न विद्यते माया यस्य सोऽमायः ‘बहुव्रीहिः' / तत्सं० हे अमाय ! / संसारे वासः संसारवासः 'तत्पुरुषः' / संसारवासमवतीति संसा० 'तत्पुरुषः' / न संसारवासावनः असंसा० 'तत्पुरुषः' / तत्सम्बो० हे असं० / नवश्चासावालानश्च नवालानः 'कर्मधारयः' / नवालानवद् बाहू यस्य स नवा० 'बहुव्रीहिः' / तत्सम्बो० हे नवा० / श्रियः प्रभवो यस्मात् स श्रीप्रभवः ‘बहुव्रीहिः' / तत्सम्बो० हे श्रीप्रभव ! / भवस्य भयं भवभयं तत्पुरुषः' / तस्मात् भव० / भक्तिं भजन्तीति भक्तिभाजः 'तत्पुरुषः' / तेषां भक्ति० / सहारवेण वर्तते या सा सारवा 'तत्पुरुषः' / रसायामालीना रसालीना 'तत्पुरुषः' / रसालीना वाला यस्याः सा रसा० 'बहु०' / अनवरतं रसालीनवाला अनवरतर० 'तत्पुरुषः' / तत्सम्बो० / / इति काव्यार्थः / / 45 / / (2) सि० वृ०-पूज्य ! श्रीवासुपूज्येति / अहो इत्यामन्त्रणे / वसुपूज्यस्य अपत्यं वासुपूज्यः, वसवो देवविशेषाः तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यः / प्रज्ञाद्यण् / गर्भस्थेऽस्मिन् वसूनि-रलानि 1. पद्माभवासुपूज्यौ रक्तौ /