________________ श्रीवासुपूज्यजिनस्तुतयः // करं परि-लक्षीकृत्य परिकर 'अव्ययीभावः' / सह अक्षमालया वर्तते या सा साक्षमाला 'तत्पुरुषः' / / इति काव्यार्थः / / 48 / / इति श्रीमबृहत्पण्डितश्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवासुपूज्यजिनपतिस्तुतेर्व्याख्या / / 4 / 12 / 48 // // द्वितीयांशः सम्पूर्णः // (2) सि० वृ०-रक्षःक्षुद्रेति / हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवी शान्तिदेवता, श्रीशब्दोऽत्र महत्त्वख्यापकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं क्षमालाभवन्तं' क्षमतीति क्षमा तस्या लाभः-प्राप्तिः स विद्यते यस्य स क्षमालाभवान्, तादृशं जनयतात्-कुरुतादित्यर्थः / 'जनी प्रादुर्भावे' धातोः 'आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'ए अय्' (सा० सू० 41) तुपस्तातङादेशः / तथा च 'जनयतात्' इति सिद्धम् / अत्र 'जनयतात्' इति क्रियापदम् | का की ? / श्रीशान्तिदेवी / कं कर्मतापन्नम् ? / भवन्तम् / भवच्छब्दस्यामि परे रूपम् / कस्मिन् ? / जगति / कथम् ? / सदा। कथंभूता श्रीशान्तिदेवी ? | 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः, क्षुद्राः-शाकिन्यादयः, ग्रहाः-शनैश्चरप्रमुखाः, आदिशब्दादन्येऽपि भूपालव्यालकालादयः, तेभ्यः प्रतिहननमिति व्युत्पत्त्या प्रतिहतिः-उपघातः तस्याः शमनीविनाशिनी / पुनः कथंभूता ? / 'वाहितश्वेतभास्वत्सन्नालीका" वाहितं-वाहनीकृतं श्वेतं-उज्ज्वलं भास्वद्दीप्यमानं सत्-शोभनं नालीकं-कमलं यया सा तथा / पुनः कथंभूता ? / ‘प्तापरिकरमुदिता' प्ता-जटा तस्याः परिकरः-मण्डलं तेन मुदिता-हृष्टा / अत्र ताशब्देन जटा ज्ञेया / लक्ष्यं च "राजा राजार्चितांहेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजाधु नभसितधवलं यद्वपुर्भूषयन्ति / मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः // " इति रसतरंङ्गिण्यां शृङ्गारतिलकटीकायाम् / पुनः कथंभूता ? | शुभ्रा-शुक्लवर्णा | पुनः कथंभूता ? / 'सन्नालीका' सन्नं-क्षीणं क्षयं गतमिति यावद् अलीकं-असत्यं यस्याः सा तथा / पुनः कथंभूता ? / 'सदाप्ता' सतां-साधूनां आप्ता-अवञ्चका, अविप्रतारिकेत्यर्थः / सेति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः परिकरं करं-हस्तं लक्ष्मीकृतकरेत्यर्थः, कुण्डिका-कमण्डलुः भातिशोभत इत्यर्थः / 'भा दीप्तौ' इति धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / अत्र ‘भाति'