________________ 180 शोभनस्तुति-वृत्तिमाला श्रीश्रेयांसजिनेन्द्रस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येणा-ऽऽचार्येणार्यहितैषिणा / / . // इत्येकादशजिनस्तुतिः // 4 / 11 / 44 // (4) दे० व्या०-धृतपवीति / महाकाली देवी प्रजयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / का की ? / महाकाली देवी / किंविशिष्टा महाकाली ? / उपलक्षिता इत्यध्याहारः / कैः ? / करैः / अन्यथा करैरित्यलग्नकं स्यात् / किंविशिष्टैः करैः ? / 'धृतपविफलाक्षालीघण्टैः' पविः-वज्रं फलं स्पष्टं अक्षाली-जपमालिका घण्टा प्रसिद्धा एतेषां पूर्वं 'द्वन्द्वः', ततो धृतागृहीताः पविफलाक्षालीघण्टा यैः इति विग्रहः / पुनः किंविशिष्टैः ? / 'कजराजिभिः' कजं-कमलं तद्वद् राजन्ते इत्येवंशीलाः कजराजिनः तैः / पुनः किंविशिष्टा देवी ? / 'कृतबोधितप्रजयतिमहा' बोधितावोधिं प्रापिता प्रजा यैः ते बोधितप्रजाः ते च ते यतयश्चेति पूर्व(कर्म०)समासः, कृतो बोधितप्रजयतीनां महः-उत्सवो ययेति ‘तृतीयाबहुव्रीहिः' / पुनः कीदृशी ? / अध्यासीना-आरूढा | कम् ? / माधिपंपुरुषप्रकाण्डम् / अत्र ‘अधेः शीङ्स्थासआधारे' इत्यासमा(?)नुयोगे आधारस्य कर्मत्वम् / किं कुर्वती देवी ? / दधती-बिभ्रती / काम् ? / 'निजतनुलताम्' / तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तां निजतनुलताम् / किंविशिष्टां निजतनुलताम् ? / अपरिक्षताम्-अदूषिताम् / कैः ? / 'अर्त्याधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मानसी व्यथा पङ्कः-शरीरमलः जरा वार्धक्यम् आजिःसङ्ग्रामः एतेषां 'द्वन्द्वः' तैः / “स्यादाधिर्मानसीव्यथा” इत्यभिधानचिन्तामणिः (?) / / इति चतुर्थवृत्तार्थः / हरिणीच्छन्दः / “नसमरसलागः षड्वैदैहयैर्हरिणी मताः” इति तल्लक्षणम् / / 4 / 11 / 44 // ध० टीका-धृतेति / ‘धृतपविफलाक्षालीघण्टैः' पविः-वज्रं फलं-पुष्पोत्तरकालभाविवस्तुरूपम् अक्षाली-अक्षमाला घण्टा-वाद्यविशेषः, धृताः पविफलाक्षालीघण्टा यैस्तैः / करैः' पाणिभिरुपलक्षिता, अथवा करणभूतैः / ‘कृतबोधितप्रजयतिमहा' कृतो बोधितप्रजानां-प्रज्ञापितलोकानां यतीनां महः-पूजा उत्सवो वा यया सा / 'काली' श्यामलाम् / अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोरोगः पङ्कःमलः जरा-स्थाविरम् आजिः-सङ्ग्रामः एतैः / 'निजतनुलतां' स्वाङ्गयष्टिम् / 'अध्यासीनां' आरूढाम् / 'दधती' बिभ्राणा / 'अपरिक्षतां' अविध्वस्ताम् / 'प्रजयति' प्रकर्षेण जयति / 'महाकाली' महाकाल्यभिधाना / 'माधिपं' पुरुषप्रकाण्डकम् / 'कजराजिभिः' कजं-वारिजं तद्वद् राजनशीलैः / कजराजिभिः करैरुपलक्षिताऽाधिपङ्कजराजिभिरपरिक्षतां मर्त्याधिपमध्यासीनां काली तनुलतां दधती महाकाली प्रजयतीति सम्बन्धः // 4 / 11 / 44 //