________________ श्रीश्रेयांसजिनस्तुतयः 179 संग्रामः, “समे क्ष्मांशे रणेऽप्याजिः” इत्यमरः (श्लो० 2398), एतैः अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः तैः कृत्वा ‘इतरेतरद्वन्द्वः / “पुंस्याधिर्मानसी व्यथा” इत्यमरः (श्लो० 418) / पुनः कथंभूता ? | अध्यासीना-आरूढा | कम् ? / 'माधिपं' मानां मर्येषु वा अधिपो माधिपः तं, पुरुषप्रकाण्डमित्यर्थः / 'अधेः शीस्थास आधारः' (सिद्ध० अ० 2, पा० 2, सू० 20) इत्याधारस्य कर्मत्वम् / हरिणीच्छन्दः / “नसमरसलागः षड्वेदैर्हयैर्हरिणी मता” इति च तल्लक्षणम् / / // इति श्रीमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्य० श्रीश्रेयांसजिनस्तुतिवृत्तिः // 4 / 11 / 44 // . (3) सौ० वृ०-धृतपवीति / महाकालीनाम्नी देवी प्रजयतीत्यन्वयः / 'प्रजयति' इति क्रियापदम् / का की ? / 'महाकाली' / 'प्रजयति' प्रकर्षेण जयं प्राप्नोति / किंविशिष्टा महाकाली ? / 'उपलक्षिता' ज्ञाता | उपलक्षितेति पदमध्याहार्यम् / कैः कृत्वा ? | ‘करैः' हस्तैः / किंविशिष्टैः ? / धृता-रक्षिताः पविः-वज्रं (फलं-) मातुलिङ्गादि अक्षाली-अक्षमाला घण्टा-वाद्यविशेषो यैस्ते तैः ‘धृतपविफलाक्षालीघण्टैः' / पुनः किंविशिष्टा महाकाली ? / (कृता-) निष्पादिता बोधिताः-प्रतिबोधिताः प्रजा-लोका यैः ते तादृशा ये यतयः तेषां महः-उत्सवः पूजा वा यया सा ‘कृतबोधितप्रजयतिमहा' / पुनः महाकाली किं कुर्वाणा ? / 'दधती' धारयन्ती / कां कर्मतापन्नाम् ? / 'निजतनुलता' स्वशरीरवल्लीम् / किं विशिष्टां निजतनुलताम् ? / 'काली' श्यामाम् / पुनः किंवि० महाकाली ? / 'अपरिक्षता' अपरिद्रुता / कैः ? / अतिः-पीडा आधिः-मानसी व्यथा पङ्को-मलः जरा-विस्रसा आजिः-संग्रामः तैः ‘अाधिपङ्कजराजिभिः' / पुनः किं० महाकाली ? / 'अध्यासीना' आरूढा / कं कर्मतापन्नम् ? / 'माधिपम्' मानवप्रवरम् / नरवाहनामित्यर्थः / किंविशिष्टैः करैः ? / 'कजराजिभिः' पद्मवद् राजमानैः / इति पदार्थः / / - अथ समासः-पविश्च फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः, [धृताः पवि-फलाक्षालीघण्टा यैस्ते धृत०] तैः धृतपविफलाक्षालीघण्टैः / वोधिताः प्रजा यैस्ते बोधितप्रजाः, बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः, कृतः बोधितप्रजयतीनां महो यया सा कृतबोधितप्रजयतिमहा / अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः तैः अाधिपङ्कजराजिभिः / तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तामधीत्य-आश्रित्य आसीना-अध्यासीना / 'अधिशीस्थासामाधारः कर्म स्यात्' इति कर्मणि द्वितीया / न परिक्षता अपरिक्षता, (तां अपरिक्षताम्) / मर्त्यस्य अधिपो माधिपः, तं माधिपम् / के-पानीये जायन्ते इति. कजानि, कजवद् राजन्ते इत्येवंशीलाः कजराजिनः, तैः कजराजिभिः / इति तुरीयवृत्तार्थः // 4 / 11 / 44 // 1. 'अधिशीस्थासां कर्म' इति तु सारस्वते (सू० 429)