________________ 178 शोभनस्तुति-वृत्तिमाला बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः ‘कर्मधारयः' / बोधितप्रजयतीनां महो बोधि० 'तत्पुरुषः' / कृतो बोधितप्रजयतिमहो यया सा कृतबोधि० 'बहुव्रीहिः' / अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः ‘इतरेतरद्वन्द्वः' / तैराधि० / तनुरेव लता तनुलता ‘कर्मधारयः' / निजस्य तनुलता निजतनु० 'तत्पुरुषः' / यदिवा निजा चासौ तनुलता च निज० 'कर्मधारयः' / तां निज० / न परिक्षता अपरिक्षता 'तत्पुरुषः' / तां अपरिक्षताम् / मर्त्यानां मत्र्येषु वा अधिपो माधिपः 'तत्पुरुषः' / तं मा० / कात् जायत इति कजं 'तत्पुरुषः' / कजवद् राजिनः कज० 'तत्पुरुषः' / तैः कजराजिभिः / / इति काव्यार्थः / / 44 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीश्रेयांसजिनस्तुतेर्व्याख्या // 4 / 11 / 44 // (2) सि० वृ०-धृतपवीति / महाकाली-महाकालीनाम्नी देवी प्रजयति-सर्वोत्कर्षेण वर्तत इत्यर्थः / प्रपूर्वक 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'प्रजयति' इति क्रियापदम् / का की ? / महाकाली / कथंभूता महाकाली ? / 'कृतबोधितप्रजयतिमहा' बोधिताःप्रतिबोधिताः प्रजा-लोका यैस्ते बोधितप्रजयतयः तेषां कृतो-विहितो महः-उत्सवः पूजा वा यया सा कृत० / पुनः कथंभूता ? / उपलक्षितेत्यध्याहारः / कैः कृत्वा ? / करैः-हस्तैः / तथा च करैः उपलक्षिता इति देव्या भिन्नमेव विशेषणम् / कथंभूतैः करैः ? / 'धृतपविफलाक्षालीघण्टैः' पविः-वजं फलंपुष्पोत्तरकालभाविवस्तुरूपं अक्षाली-जपमाला घण्टा-वाद्यविशेषः; पविश्च फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः ‘इतरेतरद्वन्द्वः', ततो धृता-गृहीता पविफलाक्षालीघण्टा यैस्ते तथा तैः तस्याश्चतुष्करत्वेन प्रतिकरमेकैकवस्तुधारणादिति ज्ञेयम् / / “फलं हेतुसमुत्थे स्यात्, फलके व्युष्टिलाभयोः / जातीफलेऽपि ककोले, सस्यबाणाग्रयोरपि // " फलिन्यां तु फलीं प्राहुस्त्रिफलायां फले क्वचित्” इति विश्वः / “फलं फले धानबीजे, निष्पत्तौ भोगलाभयोः” इति केशवः / पुनः कथंभूतैः करैः ? / 'कजराजिभिः' कात्-जलात् जायते इति कजंकमलं तद्वद् राजन्तीत्येवंशीलाः कजराजिनः, तैः कजराजिभिः / महाकाली किं कुर्वाणा ? / दधतीविभ्राणा / काम् ? / 'निजतनुलता' तनुरेव लता तनुलता, निजा चासौ तनुलतेति कर्मधारयः' / कथंभूतां निजतनुलताम् ? / 'अपरिक्षतां' न परिक्षता अपरिक्षता तां, अदूषितामित्यर्थः / कैः कृत्वा ? / ‘अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोव्यथा पङ्को-मलः “अस्त्री पडूं पुमान् पाप्मा, पापं किल्बिषकल्मषं” इत्यमरः (श्लो० 260), “पङ्कः कर्दमपापयोः” इति विश्वः, जरा-विस्रसा आजि: