________________ श्रीश्रेयांसजिनस्तुतयः 177 मानववृद्धिं समभिलषतां-वाञ्छतां सह दाने रसेन-वितरणाभिलाषेण वर्तते सदानरसं पदं तनु-विधेहि इति संटङ्कः / नरसंपदं किंभूताम् ? / तनुमति-प्राणिनि मताम्-अभीष्टामभिमताम् / किंविशिष्टानाम् ? / सन्नाः-क्षीणा आशा-मनोरथा येषाम् / नरसंपदं किंभूताम् ? / आनता भूपतयो यस्यां सा ताम् / सन्विद्यमानो नाशो-मरणं येषां ते / अल्पायुषामित्यर्थः / / 43 / / श्रीमहाकालीदेव्या विजयः धृतपविफलाक्षालीघण्टैः करैः कृतबोधित___प्रजयतिमहा कालीमाधिपङ्कजराजिभिः / निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिभिः // 4 // 44 // -हरिणी . (1) ज० वि०-धृतपवीति / महाकाली-महाकाल्यभिधा देवी प्रजयति-प्रकर्षेण जयमासादयतीति क्रियाकारकसम्बन्धरचना / अत्र ‘प्रजयति' इति क्रियापदम् / का कर्जी ? 'महाकाली' / कथंभूता ? ‘कृतबोधितप्रजयतिमहा' बोधिताः-प्रतिबोधिताः प्रजा-लोका यस्तादृशा ये यतयः-साधवस्तेषां कृतोविहितो महः-उत्सवः पूजा वा यया सा तथा / कैः कृत्वा ? 'करैः' पाणिभिः करणभूतैः कृत्वा / यतीनां उत्सवं पूजां वा करोतीत्यर्थः / यदिवा उपलक्षितेति पदाध्याहारात् करैरुपलक्षितेति भिन्नमेव विशेषणम् / करैः कथंभूतैः ? 'धृतपविफलाक्षालीघण्टैः' पविः-वजं फलं-पुष्पोत्तरकालभाविवस्तुरूपं अक्षाली-अक्षमाला घण्टा-वाद्यविशेषः, धृता-आधेयीकृताः पविफलाक्षालीघण्टा यैस्ते तथा / एतस्याः चत्वारः कराः पविप्रभृतीनि च चत्वारि वस्तूनि, तेनैकैकेन करेण एकैकं वस्तु धृतमित्यवसेयम् / करैः पुनः कथंभूतैः ? 'कजराजिभिः' कजं-कमलं तद्वद् राजिभिः-राजनशीलैः / महाकाली किं कुर्वाणा ? 'दधती' विभ्राणा / कां कर्मतापन्नाम् ? 'निजतनुलताम्' स्वाङ्गयष्टिम् / कथंभूतां निजतनुलताम् ? 'अपरिक्षताम्' अविध्वस्ताम् / अदूषितामित्यर्थः / कैः कृत्वा ? ‘अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोरोगः पङ्को-मलः जरा-स्थाविरम् आजिः-सङ्ग्रामः एतैः / पुनः कथंभूताम् ? 'कालीम्' श्यामलाम् / पुनः कथंभूताम् ? 'अध्यासीनाम्' आरूढाम् / कं कर्मतापन्नम् ? 'माधिपम्' पुरुषप्रकाण्डं, नरवाहनामित्यर्थः / / / अथ समासः-पविश्च फलं च अक्षाली च घण्टा च पवि० ‘इतरेतरद्वन्द्वः' / धृताः पविफलाक्षालीघण्टा यैस्ते धृतपवि० 'बहुव्रीहिः' / तैघृतपवि० / बोधिताः प्रजा यैस्ते बोधितप्रजाः ‘बहुव्रीहिः' /