________________ 176 शोभनस्तुति-वृत्तिमाला प्रणता भूपतयो यस्याः सा आनतभूपतिः, तां आनतभूपतिम् / मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिमताम् / सन् नाशो येषां ते सन्नाशाः, तेषां सन्नाशानाम् / नराणां सम्पत् नरसम्पत्, तां नरसम्पदम् / इति तृतीयवृत्तार्थः / / 43 // (4) दे० व्या०-भवजलनिधीति / हे अर्हन्नाथागम !-तीर्थङ्करागम ! त्वं मतिमतां-प्रेक्षावतां नरसम्पदंमानवर्द्धिं सदा-निरन्तरं यथा स्यात् तथा तनु-विस्तारय इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनु' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? / नरसम्पदम् / केषाम् ? / 'मतिमताम्' मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिमताम् / किंविशिष्टां नरसम्पदम् ? / मतां-वाञ्छिताम् / कस्मिन् ? / 'तनुमति' तनुः-शरीरं विद्यते यस्य स तनुमान् तस्मिन् / किंविशिष्टाम् ? / 'आनतभूपतिम्' आ-समन्तात् नताः-प्रह्वीभूताः भूपतयः-राजानो यस्याः सा ताम् / किंविशिष्टानां मतिमताम् ? / 'सन्नाशानाम्' सन्विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / अल्पायुषामिति फलितार्थः / पुनः किंविशिष्टानाम् ? / ‘सन्नाशानाम्' सन्ना-क्षीणा आशा-मनोरथो येषां ते तथा तेषाम् / किं कुर्वतां मतिमताम् ? / ‘समभिलषताम्' आकाङ्क्षताम् / किम् ? / पदं-स्थानकम् / किंविशिष्टं पदम् ? / 'सदानरसम्' दानस्यवितरणस्य रसः-अभिलाषः तेन सह वर्तते यत् तत् / 'भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' इति / भवः-संसारः स एव जलनिधिः-समुद्रः तस्मिन् भ्राम्यन्तः-भ्रममाणा ये जन्तुव्रजाः-प्राणिसमूहाः तेषां आयतः-विपुलः पोत इव पोतः-यानपात्रं यः स तस्यामन्त्रणम् / इति तृतीयवृत्तार्थः / / 43 / / / ध० टीका-भवेति / भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवजलनिधौ-संसारार्णवे भ्राम्यन्परिवर्तमानो जन्तुव्रजः-सत्त्वसमूहस्तस्योत्तारणादायतपोत-प्रलम्बयानपात्र ! / 'हे' इत्यामन्त्रणे / 'तनु' विस्तारय / ‘मतिमतां' मनीषिणाम् / 'सन्नाशानां' सन्ना-विशीर्णा आशा-मनोरथा येषां तेषाम् / 'सदा' सर्वदा / 'नरसम्पदं’ मनुष्यविभूतिम् / ‘सममिलषताम्' आकाङ्क्षताम् / अर्हन्नाथागम !' जिनेशदर्शन ! / 'आनतभूपति' प्रणतसामन्तम् / 'तनुमति' शरीरिविषये / 'मतां' अभीष्टाम् / ‘सन्नाशानां' विद्यमाननाशानाम्, स्तोकायुषामित्यर्थः / 'सदानरसं' सह दानरसेन-द्रव्यवितरणाभिलाषेण वर्तते यत् तत् / ‘पदं' स्थानकम् / हे अर्हन्नाथगम ! पदं सदानरसं समभिलषतां सदा नरसम्पदं तनु इति सम्बन्धः / / 43 / / अवचूरिः __हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र ! जिनेन्द्रसमय ! मतिमतां पुरुषाणां नरसंपदं१. धातोरस्याऽनात्मनेपदत्वादशुद्धमिदम्, 'उत्क्षिपन्तः' इत्यत्रोचितम् /