________________ श्रीश्रेयांसजिनस्तुतयः 175 नराणां सम्पत् नरसम्पत् ताम् / कथंभूतां नरसम्पदम् ? / 'आनतभूपतिं' आनताः-प्रणताः भूपतयोराजानो यस्यां सा ताम् / पुनः कथंभूताम् ? / मतां-संमताम् अभीष्टामिति यावत् / कस्मिन् ? / 'तनुमति' तनुर्विद्यते यस्य स तनुमान् तस्मिन्, प्राणिनीत्यर्थः / तथा च ये मतिमन्तो मरणकाले नरसम्बधिनी सम्पदं वाञ्छन्ति तेषां त्वं तादृशं स्थानं देहि, यत्र दानरसो भवतीति वाक्यार्थः / अवशिष्टं त्वेकं संबोधनम् / तस्य चायमर्थः-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वात् जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तूनां-प्राणिनां व्रजः-समूहः तस्य आयतःविस्तीर्णः स चासौ पोत इव पोतो-यानपात्रं तस्य संबोधनं हे भव० / “यानपात्रे शिशौ पोतः” इत्यमरः (श्लो० 2454) / “पोतः शिशौ बहिः च, गृहस्थाने च वाससि” इति मेदिनी / / 43 / / . (3) सौ० वृ०-भजलनिधीति / भवः-संसारः चातुर्गतिकलक्षणः स एव जलनिधिः-समुद्रः तस्मिन् भ्रमन्तः-पर्यटन्तो ये जन्तवः-प्राणिनः तेषां व्रजः-समूहः तेषां तारणे आयतो-विस्तीर्णः पोत इव पोतःयानपात्रं, तस्य सं० 'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' / अर्हन्तो-वीतरागाः केवलज्ञानिनः तेषां नाथाः-तीर्थकराः तेषां आगमः-सिद्धान्तः तस्य सं० हे 'अर्हन्नाथागम !' / त्वं मतिमतां विदुषां सदा-सर्वदा सदानरसं दानहर्षेण सहितं पदं-स्थानं तनु इत्यन्वयः / 'तनु' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / 'तनु' विस्तारय / किं कर्मतापन्नम् ? | 'पदम' / केषाम् ? / 'मतिमताम' पण्डितानाम् / कथम् ? "सदा' / किंविशिष्टानां मति(नर)सम्पदम् ? / 'वानर' (?) इति क्रियापदम् / तथा नराणां सम्पदं नरसम्पदं वा / किंविशिष्टां (नर)सम्पदम् ? / [मति वा] आनताः-प्रणता भूपतयः यस्यां सा आनतभूपतिः, तां 'आनतभूपतिम्' / पुनः किंवि० ? / 'मतां' अभिमताम् / कस्मिन् ? / 'तनुमति' प्राणिनि / पुनः किंवि० मतिमताम् ? / सन्-विद्यमानः प्रशस्तो वा नाशः-अन्तो येषां ते सन्नाशाः तेषां सन्नाशानाम्' / इति पदार्थः / / अथ समासः-जलानि निधीयन्ते अस्मिन् इति जलनिधिः, भव एव जलनिधिः भवजलनिधिः, भवजलनिधौ भ्राम्यन्तः भवजलनिधिभ्राम्यन्तः, भवजलनिधिभ्राम्यन्तश्च ते जन्तवश्च भवजलनिधिभ्राम्यज्जन्तवः, भव०जन्तूनां व्रजः भवजलनिधिभ्राम्यज्जन्तुव्रजः, आयतश्चासौ पोतश्च आयतपोतः, भवज०व्रजस्य आयतपोतः भवज०व्रजायतपोतः, तस्य (सं०) हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! / हे इत्यामन्त्रणपदम् / तनुः-शरीरं विद्यते यस्यासौ तनुमान, तस्मिन् तनुमति / सन्नाः-क्षीणाः आशा येषां ते सन्नाशाः, तेषां सन्नाशानाम् / दानस्य रसः दानरसः, दानरसेन सहितं सदानरसम्, तत् सदानरसम् / सम्यक् प्रकारेण अभिलषन्तः तेषां समभिलषताम् / सुरादिकृतां पूजा अर्हन्ति ते अर्हन्तः, अर्हतां नाथाः अर्हन्नाथाः, अर्हन्नाथानां आगमः अर्हन्नाथागमः, तस्य सं० हे अर्हन्नाथागम ! / आनताः१. अस्त-व्यस्तम्पदमिदम्, एवमत्र सम्भाव्यते, ...मतिमताम् ? सन्नाशानां सन् नाशो मृत्युर्येषां ते सन्नाशास्तेषां सन्नाशानाम्" 2. अशुद्धस्थलमेतत्, किन्तु के कर्तुस्तात्पर्यविषयकाः शब्दा इति प्रत्यन्तराभावान्न निश्चेतुं शक्यते /