________________ 174 ___ शोभनस्तुति-वृत्तिमाला मतिमतां किं कुर्वताम् ? 'समभिलषताम्' आकाङ्क्षताम् / कां कर्मतापन्नाम् ? 'नरसम्पदम्' मनुष्यविभूतिम् / नरसम्पदं कथंभूताम् ? 'आनतभूपतिम्' आनताः-प्रणताः भूपतयो राजानो यस्यां सा तथा ताम् / पुनः कथंभूताम् ? 'मताम्' अभीष्टाम् / कस्मिन् ? 'तनुमति' प्राणिनि / अयं वाक्यार्थः-ये मतिमन्तो मरणकाले नरसंबन्धिनी सम्पदमभिलषन्ति तेषां त्वं तादृशं स्थानं देहि यत्र दानरसो भवतीति / अवशिष्टं त्वेकं संबोधनं तस्यार्थस्त्वयम्-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वाज्जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तुव्रजः-प्राणिसमुदायः तस्यायतपोत इवदीर्घयानपात्रमिवायतपोतः तत्संबो० हे भवजल० / / अथ समासः-जलानां निधिः जलनिधिः 'तत्पुरुषः' / भव एव जलनिधिः भव० 'कर्मधारयः' / भवजलनिधौ भ्राम्यन् भव० 'तत्पुरुषः' / जन्तूनां व्रजो जन्तुव्रजः 'तत्पुरुषः' / भवजलनिधिभ्राम्यंश्चासौ जन्तुव्रजश्च भवजल० 'कर्मधारयः' / आयतश्चासौ पोतश्च आयतपोतः ‘कर्मधारयः' / भवजलनिधिभ्राम्यज्जन्तुव्रजस्य आयतपोतः भवजल० 'तत्पुरुषः' / तत्संबो० हे भवजल० / सन्ना आशा येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / नरस्य सम्पदं नरसम्पदम् 'तत्पुरुषः' / अर्हतां नाथा अर्हन्नाथाः 'तत्पुरुषः' / अर्हन्नाथानां आगमः अर्ह० 'तत्पुरुषः' / तत्संबो० हे अर्ह० / भुवः पतयो भूपतयः 'तत्पुरुषः' / आनता भूपतयो यस्यां सा आनतभूपतिः ‘बहुव्रीहिः' / तामानतभूपतिम् / सन् नाशो येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / दानस्य रसो दानरसः 'तत्पुरुषः' / सह दानरसेन वर्तते यत् तत् सदानरसं ‘बहुव्रीहिः' / / इति काव्यार्थः / / 43 / / सि० वृ०-भवजलनिधीति / हे इत्यामन्त्रणे / हे अर्हन्नाथागम !-जिनेन्द्रसिद्धान्त ! त्वं मतिःप्रज्ञा विद्यते येषां ते मतिमन्तः तेषां मतिमतां जनानां सदा-सर्वदा 'सदानरसं' दानम्-उत्सर्जनं तस्य रसोगुणः तेन सह वर्तते यत् तत् तथा, “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः (श्लो० 2789), ताशं पदं-स्थानकं तनु-विस्तारय देहीत्यर्थः / 'तनु विस्तारे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'तनादेरुप्' (सा० सू० 997), ओर्वा हेः' (सा० सू० 981) इति हेर्लोपः / तथा च 'तनु' इति सिद्धम् / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / पदम् / “पदं व्यवसितत्राण-स्थानलक्ष्माझिवस्तुषु” इत्यमरः (श्लो० 2521) / कथंभूतम् ? / सदानरसम् / कथम् ? / सदा / केषाम् ? / मतिमताम् / कथंभूतानां मतिमताम् ? / ‘सन्नाशानां' सन्नाः क्षीणाः विशीर्णा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? / 'सन्नाशानां' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / “सत् प्रशस्ते विद्यमाने” इति विश्वः / अल्पायुषामित्यर्थः / मतिमतां किं कुर्वताम् ? / समभिलषतां-आकाङ्क्षताम् / काम् ? / 'नरसम्पदं'