________________ श्रीश्रेयांसजिनस्तुतयः 173 'मतिं मम' प्रतिभा मे / 'असमदमहितां' सह मदेन वर्तन्ते ये ते, न समदाः असमदाः-शान्तास्तैर्महितांपूजिताम् / ‘आरात्' दूराद्, अन्तिकाद् वा। ‘इष्टा' पूजिता, अभिमता वा / 'समानवराजया' सह मानवराजैः-मनुजपतिभिर्वर्तते या तया / जीवालीनां दिष्टा समानवरा इष्टा सती नमदमृतभुक्पङ्क्तया नूता जिनवरततिः मे मतिं तनोतु इति सम्बन्धः / / 42 / / अवचूरिः जिनेन्द्रराजिर्मम मतिं ददातु / किंभूता ? / प्राणिगणानां निर्निमित्तवत्सला | असमो दमो येषां निरुपमदमस्य वा हिता-अभिप्रेता / अमारा-अकामा, अमरणा वा / आदिष्टो-दत्तोऽसमानोऽपूर्वो वरोवाञ्छितार्थप्राप्तिर्यया सा / अजया-अपरिभूता, यद्वा न जायते इत्यजा तया नमन्तो-नम्रा येऽमृतभुजोदेवास्तेषां पङ्क्तया नूता-स्तुता / मतिं किंभूताम् ? / असमदैः-निरहंकारैः-महिता-पूजिताम् / आरात्शीघम् / इष्टा-पूजिता, अभिमता वा / देवपङ्क्त्या किंभूतया ? / सह मानवराजैः-नरेन्द्रैवर्तते या तया / / 42 // जिनागमस्य स्तुतिः- : भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे . तनु मतिमतां सन्नाशानां सदा नरसम्पदम् / समभिलषतामहन्नाथागमानतभूपति - तनुमति मतां सन्नाशानां सदानरसं पदम् // 3 // 43 // - हरिणी (1) ज० वि०-भवजलनिधीति / हे इत्यामन्त्रणे / अर्हन्नाथागम ! जिनेन्द्रसिद्धान्त ! त्वं मतिमतांमनीषिणां जनानां सदा-सर्वदा ‘सदानरसं' सह दानरसेन द्रव्यवितरणाभिलाषेण वर्तते यत् तत् तथा तादृशं पद-स्थानकं तनु-विस्तारय-देहीति क्रियाकारकसंयोगः / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? ‘पदम्' / कथंभूतम् ? 'सदानरसम्' / कथम् ? 'सदा' / केषाम् ? ‘मतिमताम्' / कथंभूतानां मतिमताम् ? ‘सन्नाशानाम्' सन्ना-विशीर्णाः क्षीणा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? सन्नाशानाम्' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / अल्पायुषामित्यर्थः /