________________ 172 शोभनस्तुति-वृत्तिमाला ते अमृतभुजश्च नमदमृतभुजः, नमदमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिः , तया नमदमृतभुक्पङ्क्त्या / न समः असमः, असमो दमो येषां ते असमदमाः, असमदमैः असमदमानां वा हिता असमदमहिता, तां असमदमहिताम् / मानवानां राजा मानवराजः, मानवराजैः सहिता समानवराजा, तया समानवराजया / 'राजाहःसखिभ्यष्टच्' (पा० अ०५, पा० 4, सू० 91) / न जायते इति अजा, तया अजया / इति द्वितीयवृत्तार्थः / / 42 / / (4) दे० व्या०-जिनवरततिरिति / जिनवरततिः-तीर्थङ्करश्रेणिः मम मतिं-बुद्धिम् आरात्-शीघ्रं यथा स्यात् तथा तनोतु-विस्तारयतु इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / जिनवराणां ततिः जिनवरततिरिति विग्रहः / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? | मम / किंविशिष्टां मतिम् ? / 'असमदमहिताम्' मदेन-हर्षेण सह वर्तमानाः समदाः, न समदा असमदाः, तैः महितां-पूजिताम् / किंविशिष्टा जिनवरततिः ? / 'अकारणवत्सला' अकारणेन-प्रयोजनाभावेन वत्सला-सस्नेहा / कासाम् ? / जीवालीनाम् / जीवानां आल्यः तासां, प्राणिगणानामित्यर्थः / पुनः किंविशिष्टा ? / 'असमदमहिता' असमः-अनन्यकल्पः दमः-इन्द्रियनियन्त्रणं येषां ते असमदमाः अर्थान्मुनयः तेषां हिता-हितकारिणी / पुनः किंविशिष्टा ? / 'अमारा' नास्ति. मारः-कन्दर्पो यस्याः सा तथा / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 59) / पुनः किंविशिष्टा ? | 'दिष्टासमानवरा' दिष्ट:प्रदत्तः असमानः अनन्यकल्पो वरो यया सा तथा / पुनः किंविशिष्टा ? / अजया-जेतुमशक्या / मिथ्यादृष्टिभिरिति शेषः / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेदः / पुनः किंविशिष्टा ? / नूता-स्तुता / कया ? | ‘नमदमृतभुक्पङ्क्त्या ' नमन्तः-प्रणमन्तः ये अमृतभुजःत्रिदिवेशाः तेषां पङ्क्तिः-श्रेणिः तया / किंविशिष्टया नमदमृतभुक्पङ्क्तया ? / 'समानवराजया' मानवाना-मनुष्याणां राजानः-मानवराजाः ‘राजाहःसखिभ्यष्टच' (पा० अ० 5, पा० 4, सू० 91) इति टच प्रत्ययः / तैः सह वर्तमाना समानवराजा तया / 'सहादेः सादिः' (सा० सू०५०६) इति सूत्रेण सकारोऽवस्थितः / पुनः किंविशिष्टा ? / इष्टा-वल्लभा / सर्वेषामिति शेषः / / इति द्वितीयवृत्तार्थः / / 42 / / ध० टीका-जिनवरेति / 'जिनवरततिः' तीर्थंकरानुपूर्वी। ‘जीवालीनां' जन्तुसन्ततीनाम् / 'अकारणवत्सला' निष्कारणस्निग्धा / 'असमदमहिता' असमो दमो येषां तेषाम्, असमस्य वा दमस्य हिताहितकारिणी / 'अमारा' निर्मदना / 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असदृशा वराः-प्रार्थितार्था यया सा / 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा, अथवा न जायत इत्यजा तया / 'नमदमृतभुक्पङ्क्तया' नमन्ती या अमृतभुजा-देवानां पङ्क्तिः -तया / 'नूता' स्तुता / 'तनोतु' प्रथयतु /