________________ श्रीश्रेयांसजिनस्तुतयः 171 तद् अकारणम्, अकारणम्-अनिमित्तं वत्सला-स्निग्धा अकारणवत्सला / “स्निग्धस्तु वत्सलः” इत्यमरः (श्लो० 2053) / कासाम् ? / 'जीवालीनां' जीवानां-प्राणिनां आल्यः-श्रेणयः तासाम् / पुनः कथंभूता ? / 'असमदमहिता' असमो-अनन्यसदृशो दमो येषां ते असमदमाः तेषां हिता-हितकारिणीत्यर्थः / पुनः कथंभूता ? / 'अमारा' न विद्यते मारः-कन्दर्पो यस्याः सा अमारा / पुनः कथंभूता ? / 'दिष्टासमानवरा' दिष्टा-दत्ता असमानाः-असाधारणाः वराः-प्रार्थितार्था यया सा, न समाना असमानाः असमानाश्च ते वराश्च असमानवराः इति 'कर्मधारयः' / पुनः कथंभूता ? / 'अजया' न विद्यते जयःअभिभवः कुतश्चित् यस्याः सा तथा / यद्वा न जायते-नोत्पद्यते इत्यजा तया / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेद: / पुनः कथंभूता ? / नूता-स्तुता / कया ? | 'नमदमृतभुक्पङ्क्तया अमृतंभुञ्जन्तीत्यमृतभुजो-देवाः तेषां पङ्क्तिः अमृतभुक्पङ्क्तिः इति तत्पुरुषः / नमन्ती चासौ अमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिस्तया / कथंभूतया ? / 'समानवराजया' मानवानां राजानो मानवराजाः ‘राजाहःसखिभ्यष्टच्' (पा० अ०५, पा०४, सू० 91) मानवराजैः-नृपतिभिः सहवर्तमाना सा तया / पुनः कथंभूता जिनवरततिः ? / इष्टा-पूजिता अभिमता वा / / 42 / / . (3) सौ० वृ०-जिनवरततिरिति / जिनवरततिः-तीर्थंकरराजिः मम मतिं-बुद्धिं सदा-शश्वद् आरात्शीघ्रं तनोतु इत्यन्वयः / 'तनोतु' इति क्रियापदम् / का की ? | 'जिनवरततिः' / 'तनोतु' विस्तारयतु | कां कर्मतापन्नाम् ? / ‘मतिम्' / कस्य ? / 'मम' / कथम् ? / 'सदा' / किंविशिष्टा जिनवरततिः ? / 'असमदमहिता' निरुपमशमजनहिता | पुनः किंविशिष्टा जिनवरततिः ? / 'अजया' सर्वैरपराजिता / पुनः किं० जिनवरततिः ? / 'नूता' स्तुता | कया ? / नमन्तः-प्रणमन्तो येऽमृतभुजो-देवाः तेषां पङ्क्तिःश्रेणिः तया ‘नमदमृतभुक्पङ्क्त्या ' / कथम् ? / ‘आरात्' / किंवि० मतिम् ? / असमदैः-मदरहितैः सज्जनैः महितां-पूजिताम् ‘असमदमहिताम्' / पुनः किं० जिनवरततिः ? / 'इष्टा' वल्लभा पूज्या वा / किंविशिष्टया नमदमृतभुक्पङ्क्त्या ? / 'समानवराजया' भूपति[श्रेणि]सहितया / पुनः किं० नमदमृतभुक्पङ्क्त्या ? / 'अजया' अगर्भोत्पन्नया, देवानां शय्योत्पत्तित्वात् / इति पदार्थः / / अथ समासः-जिनेषु वराः जिनवराः, जिनवराणां ततिः जिनवरततिः / जीवानां आली जीवाली, तासां जीवालीनाम् / न कारणं अकारणं, अकारणं वत्सला अकारणवत्सला / मदेन सहिताः समदाः, न समदाः असमदाः, असमदैर्महिता असमदमहिताः / न विद्यते मारः-कामो मरणं वा यस्याः सा अमारा / न समानः असमानः, असमानश्चासौ वरश्च असमानवरः / दिष्टः-कथितः दत्तो वा असमानवरो यया सा दिष्टासमानवरा / नास्ति अन्यैः जयो यस्याः सा अजया / अमृतं भुञ्जन्तीति अमृतभुजः, नमन्तश्च