________________ 170 शोभनस्तुति-वृत्तिमाला असमदमानां-निरुपमोपशमानां हिता-हितकारिणी / पुनः कथं० ? 'अमारा' माररहिता | पुनः कथं० ? 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असाधारणा वराः-प्रार्थितार्था यया सा तथा / पुनः कथं ? 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा तथा / पुनः कथंभूता ? 'नूता' स्तुता / कया ? 'नमदमृतभुक्पङ्क्त्या ' नमन्ती या अमृतभुजां-देवानां पङ्क्तिः -श्रेणिः तया / तथा कथंभूतया ? 'समानवराजया' मानवराजैः-भूपतिभिः सह वर्तमानया / अजयेति जिनवरततेर्विशेषणं व्याख्यातम् / तत्र नमदमृतभुक्पङ्क्तेर्वा व्याख्यायते / तथाहि-कथंभूतया नमदमृतभुक्पङ्क्तया ? 'अजया' न जायत इत्यजा तया / तस्या उत्पातशय्यायामेवोत्पादात् / जन्मक्लेशरहितयेत्यर्थः / जिनवरततिः पुनः कथं ? 'इष्टा' पूजिता अभिमता वा / / अथ समासः-जिनानां जिनेषु वा वरा जिनवराः 'तत्पुरुषः' / जीवानां आल्यो जीवाल्यः तत्पुरुषः / तासां जीवा० / न विद्यते कारणं यत्र तत् अकारणं ‘बहुव्रीहिः' / अकारणं वत्सला अकारणव० 'तत्पुरुषः' / न समो असमः 'तत्पुरुषः' / असमो दमो येषां ते असमदमाः ‘बहुव्रीहिः' / असमदमैर्महिता असम० 'तत्पुरुषः' / न विद्यते मारो यस्याः सा अमारा ‘बहुव्रीहिः' / न समानाः असमानाः 'तत्पुरुषः' / असमानाश्च ते वराश्च अस० 'कर्मधारयः' / दिष्टा असमानवरा यया सा दिष्टास० बहुव्रीहिः / न विद्यते जयो यस्याः सा अजया 'बहुव्रीहिः / यद्वा न जायत इत्यजा 'तत्पुरुषः' / तया अजया | अमृतं भुञ्जन्तीत्यमृतभुजः 'तत्पुरुषः' / अमृतभुजां पङ्क्तिः अमृतभुक्पङ्क्तिः 'तत्पुरुषः' / नमन्ती चासावमृतभुक्पङ्क्तिश्च नमद० 'कर्मधारयः' / तया नमद० / सह मदेन वर्तन्ते इति समदाः 'तत्पुरुषः' / न समदा असमदाः 'तत्पुरुषः' / असमदैर्महिता असमद० 'तत्पुरुषः' / तां असम० / मानवानां राजानो मानवराजाः 'तत्पुरुषः' / सह मानवराजैवर्तते या सा समानवराजा 'तत्पुरुषः' / तया समा० / इति काव्यार्थः / / 42 / / / (2) . सि० वृ०-जिनवरततिरिति / जिनानां जिनेषु वा वराः-प्रधानाः तेषां ततिः-पङ्क्तिः जिनवरततिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इत्यर्थः / 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तनादेरुप्' (सा० सू० 997), 'नूपः' (सा० सू० 979) इति गुणः / तथा च 'तनोतु' इति सिद्धम् / अत्र 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / कां कर्मतापन्नाम् ? / मतिम् / कथम् ? आरात् / “आराद् दूरसमीपयोः” इति विश्वः / कथंभूतां मतिम् ? / 'असमदमहितां' सह मदेन-अभिमानेन वर्तन्ते इति समदाः 'तत्पुरुषः', न समदा असमदाः तैर्महिता-पूजिता ताम् / कथंभूता जिनवरततिः ? / 'अकारणवत्सला' न विद्यते कारणं यत्र 1. भ्रान्तमिदम्, श्लोके 'असमदमहिता' इति पाठादत्र ‘असमदमैर्हिता' इत्यपेक्ष्यते /