________________ श्रीश्रेयांसजिनस्तुतयः 169 समगात्री सौकुमार्येण / 'तारा' कान्तिमती / 'वा' शब्दः समुच्चयार्थः / 'अबला' नितम्बिनी / 'दर्यिताऽपि' प्रेयस्यपि / 'तम्' / कुसुमधनुषा बलात् तापितं यस्मादन्यमपि कं न मोहवशं अलसदृशाङ्गी तारा वा व्यधुः ? अपि तु सर्वमेव विहितवन्तः / अबला च यन्मनः कमलसदृशाङ्गी तारा वा दयिताऽपि नाहृत तं श्रेयांसं प्रणमततरां इति योजनाक्रमः / ननु विरुद्धमेतत्, यदि दयिता कथं मनो नाहृत ? नैवं, संयमप्रतिपत्तिकालमङ्गीकृत्येदमुच्यते, न सर्वदा / / 41 / / अवचूरिः अलसदृशा-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयो यस्माज्जिनात् कमन्यं जनं मोहवशवर्तिनं न व्यधुः.? / अपि तु सर्वमप्यकर्षुः / किंविशिष्टम् ? / बलात्-प्रसभम् / अयि संबोधने / तापितं-पीडितम् / केन ? / कुसुमधनुषा-कामेन / हे जनाः ! तं श्रेयांसं प्रणमततराम् / द्राक्-शीघ्रम् / अबला-स्त्री दयिताऽपि-कान्ताऽपि यन्मनो-यन्मानसं च नाहृत-नाक्षिप्तवती / किंभूता ? / कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसदृशाङ्गी / तारा-मनोहरा / वा समुच्चये / / 41 / / जिनवराणां तल्लक्षणगर्भितस्तुतिःजिनवरततिर्जीवालीनामकारणवत्सलाऽ- . समदमहिताऽमारा दिष्टासमानवराऽजया / नमदमृतभुक्पङ्क्तया नूता तनोतु मतिं ममाऽ.. समदमहितामारादिष्टा समानवराजया // 2 // 42 // - हरिणी (1) ज० वि०-जिनवरततिरिति / जिनवरततिः-तीर्थकरपङ्क्तिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इति क्रियाकारकयोगः / अत्र 'तनोतु' इति क्रियापदम् / का की ? 'जिनवरततिः' / कां कर्मतापन्नाम् ? ‘मतिम्' / कस्य ? 'मम' / कथम् ? आरात्' / मतिं कथंभूताम् ? 'असमदमहिताम्' असमदै:-मदरहितैः शान्तैरित्यर्थः, महितां-पूजिताम् / जिनवरततिः कथंभूता ? 'अकारणवत्सला' निष्कारणं स्निग्धा / कासाम् ? 'जीवालीनाम्' जन्तुसन्ततीनाम् / पुनः कथं० ? 'असमदमहिता' 1. 'ताऽमाराऽऽदिष्टासमावरा जया' इति पाठान्तरम् /