________________ 168 शोभनस्तुति-वृत्तिमाला अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः, तेन कुसुमधनुषा / मोहस्य वशः मोहवशः, तं मोहवशम् / अलसा दृशो यासां ताः अलसदृशः, तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण येषां ते वा / गीतस्य आरावा गीतारावाः / “संबोधनेऽङ्ग भोः प्याट् पाट् हे है हहो अरेऽयि रे” इति हैमकोषः (का० 6, श्लो० 173) / अतिशयेन प्रणमत इति प्रणमततराम् / यस्य मनः यन्मनः, तद् यन्मनः / कमलवद् वा कमलानां सदृशं अङ्गं यस्याः सा कमलसदृशाङ्गी / हरिणीच्छन्दसा स्तुतिरियम् / इति प्रथमवृत्तार्थः / / 41 / / दे० व्या०–कुसुमधनुषेति / अयीति कोमलामन्त्रणे / अलसदृशां-मृगाक्षीणां / गीतारावाःगीतध्वनयो यस्मात् हेतोः कमन्यं जनं इति शेषः, वलाद-हठाद् मोहवशं-प्रेमवशवर्तिनं न व्यधुःनाकार्षुः ? अपि तु सर्वमप्यकार्युः इत्यन्वयः / 'न व्यधुः' इति क्रियापदम् / के कर्तारः ? / गीतारावाः / कासाम् ? 'अलसदृशाम्' आलस्ययुक्ते, अर्थोद्घाटिते इति यावत्, दृशौ-अक्षिणी यासां ता: तासाम् / “अलसेक्षणा मृगाक्षी” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 170) / कं कर्मतापन्नम् ? / जनम् / किंविशिष्टं जनम् ? / तापितं-पीडितम् / केन ? / 'कुसुमधनुषा' कुसुममेव धनुः-कार्मुकं यस्य स कुसुमधन्वा-कन्दर्पः तेन / “पुष्पधन्वा रतिपतिः” इत्यमरः (श्लो० 52), तत्-तस्मात् कारणात् तं श्रेयांसंश्रेयांसनाथं द्राक्-तूर्णं यथा स्यात् तथा यूयं प्रणमततराम्-अतिशयेन प्रणमतेंति पूर्वेण सम्वन्धः / ‘णम प्रह्वीभावे' धातुः / ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / श्रेयांसम् / यत्तदोर्नित्याभिसम्बन्धाद् यन्मनः-यस्य चित्तं अबला-सामान्यवनिता वाशब्दश्चकारार्थः, तेन दयिताऽपि स्वकीयवनिताऽपि च न आहृत-न क्षिप्तवती इत्यन्वयः / 'हृञ् हरणे' धातुः / किंविशिष्टा दयिता ? | 'कमलसदृशाङ्गी' कमलेन-पङ्कजेन सदृशं-तुल्यं कोमलत्वात् अङ्ग-शरीरं यस्याः सा तथा / एतेन यस्याः संस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवति इति सूचितम् / पुनः किंविशिष्टा ? / तारा-उज्ज्वला गौरांगीतियावत् / एतेन “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः” (कुमारसम्भवे) इत्यादिना विकारसामग्यां सत्यामपि विकारानुत्पातत्वेन अतिधीरत्वं ध्वन्यते / इति प्रथमवृत्तार्थः / / 41 / / ध० टीका-कुसुमधनुषेति / 'कुसुमधनुषा' स्मरेण / 'यस्मादन्यं' यतोऽपरम् / 'न मोहवशं' न रागपरवशम् / 'व्यधुः' विहितवन्तः / 'कं' इति प्रश्ने / ‘अलसदृशां' स्तिमितलोचनानाम् / स्त्रीणां नृणां वा / अनेन गायकानां समदचेष्टामाचष्टे / 'गीतारावाः' गान्धर्वध्वनयः / 'बलात्' प्रसभम् / 'अयि' इति सम्बोधने / ‘तापितं' सन्दीपितम् / 'प्रणमततराम्' अतिशयेन नमत / 'द्राक्' सपदि / 'श्रेयांसम्' श्रेयांसनामानम् / 'न च' नैव। 'आहृत' क्षिप्तवती / 'यन्मनः' यस्य मानसम् / 'कमलसदृशाङ्गी शतपत्र