________________ श्रीश्रेयांसजिनस्तुतयः 167 कुसुमधनुषा-कन्दर्पण / गीतारावाः केषाम् ? / अलसदृशाम् / अनेन विशेषणेन गानकारिणा समदचेष्टावत्त्वमाचष्टे / अत्र कमिति प्रश्ने, ततोऽयमर्थः-अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलान्मोहं न व्यधुः ? अपि तु सर्वमपि व्यधुरेवेति / यदाह “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः” इति कुमारे कालिदासोक्तिः / अबला वा सुन्दरी / वाशब्दः समुच्चयार्थः / यन्मनः-यस्य चित्तं न वाहृत-नाक्षिप्तवती न क्षोभयामासेति भावः / 'हृञ् हरणे' धातोः भूते क्तौ कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् / 'लोपो ह्रस्वाज्झसे' (सा० सू० 752 ?) इति सेर्लोपः / 'दिबादावट्' (सा० सू० 707) / तथा च आहृत' इति सिद्धम् / अत्र 'आहत' इति क्रियापदम् / का की ? | अबला / किं कर्मतापन्नम् ? / यन्मनः / अबला कथंभूता ? / 'कमलसदृशाङ्गी' कमलस्य-पङ्कजस्य सदृशं अङ्गंशरीरं यस्याः सा तथा / एतेन यस्य गात्रस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवतीति सूचितम् / पुनः कथंभूता ? / तारा-उज्ज्वला (दयिताऽपि) / / 41 / / (3) सौ० वृ०-यः शीतलो भवति स श्रेयःस्थानं भवति / अनेन संबन्धेनायातस्य एकादशश्रीश्रेयांसजिनस्य (स्तुतेः) व्याख्यानं लिख्यते- कुसुमधनुषेति / भो जनाः ! तं श्रेयांसनामानं जिनं द्राक्-शीघ्रं प्रणमततराम् इत्यन्वयः / 'प्रणमततराम्' इति क्रियापदम् / के कर्तारः ? | ‘यूयम्' / 'प्रणमततराम्' अतिशयेन नमत / कं कर्मता-पन्नम् ? | ‘श्रेयांसम्' श्रेयांसनामानं जिनम् / कथम् ? / 'द्राक्' शीघ्रम् / किंविशिष्टं श्रेयांसम् ? / 'तं' प्रसिद्धम् / तं कम् ? / यन्मनः दयिता-वल्लभा अबलाऽपि न आहृत इत्यन्वयः / ‘आहृत' इति क्रियापदम् / का कर्जी ? / 'अबला' स्त्री / 'आहत' आक्षिप्तवती / कथम् ? / 'न' निषेधे / किं कर्मतापन्नम् ? / 'यन्मनः' यच्चित्तम् / किंवि० अबला ? / 'दयिता' वल्लभाऽपि / पुनः किंवि० अबला ? / 'कमलसदृशाङ्गी' सुकुमारत्वात् कमलकोमलदेहा / 'अयि' इति कोमलामन्त्रणे संबोधने वा / अलसदृशां-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः यस्मात् कारणात्, यस्मात् जिनाद् वा अन्यं कं न मोहवशं व्यधुः इत्यन्वयः / 'व्यधुः' इति क्रियापदम् / के कर्तारः ? / 'गीतारावाः' / 'व्यधुः' अकार्षुः / कं कर्मतापन्नम् ? / 'कमन्यम्' जनम् / अन्य कस्मात् ? | 'यस्मात्' जिनात् / 'न' निषेधे काकूक्त्या / अपि तु सर्वानपीत्यर्थः / किंविशिष्टं अन्यम् ? / 'मोहवशं' रागपरवशम् / पुनः किंवि० ? / 'तापितं' पीडितम् / केन ? / 'कुसुमायुधेन' स्मरेण / कथम् ? / 'बलात्' हठात् / किंवि० अबला ? / 'तारा' उज्ज्वला, गौरवर्णेत्यर्थः / 'वा' समुच्चयार्थे / विरुद्धमेतत् / दयिता स्वभर्तृमनः कथं नाक्षिप्तवती परं प्रव्रज्याप्रतिपत्त्यनन्तरमिदं ज्ञेयम् / इति पदार्थः / /