________________ 166 शोभनस्तुति-वृत्तिमाला केन ? 'कुसुमधनुषा' कामेन / गीतारावाः कासाम् ? 'अलसदृशाम्' / अनेन विशेषणेन गानकारकाणां समदचेष्टावत्त्वमाचष्टे / अत्र कमिति प्रश्ने / ततोऽयमर्थः / अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलाद् मोहवशं न व्यधुः ? / अपि तु सर्वमपि व्यधुरेवेति / अबला वा सुन्दरी वा / ‘वा शब्दः' समुच्चयार्थः / ‘यन्मनो' यस्य मानसं 'न चाहृत' नाक्षिप्तवती / न क्षोभयामासेति भावः / अत्रापि 'आहत' इति क्रियापदम् / कथं ? 'न' / का की ? 'अबला' / किं कर्मतापन्नम् ? 'यन्मनः' / अबला कथंभूता ? 'कमलसदृशाङ्गी' वारिजसमगात्री सौकुमार्येण / पुनः कथं० 'तारा' कान्तिमती / 'च' शब्द: पुनरर्थे / पुनः कथं० ? 'दयिताऽपि' प्रेयस्यपि / / अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः ‘बहुव्रीहिः' / तेन कुसुम० / मोहस्य वशो मोहवशः 'तत्पुरुषः' / तं मोहवशम् / अलसा दृशो यासां ता अलसदृशः ‘बहुव्रीहिः' / तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण समासो विधेयः / गीतस्यारावा गीतारावाः 'तत्पुरुषः' / यस्य मनो यन्मनः ‘तत्पुरुषः' / तद् यन्मनः / कमलस्य सदृशं कमल० 'तत्पुरुषः' / कमलसदृशं अङ्गं यस्याः (सा) कमल० ‘बहुव्रीहिः / इति काव्यार्थः / / 41 / / (2) सि० वृ०-कुसुमधनुषेति / भो भव्याः ! यूयं तं श्रेयांसं-श्रेयांसनामानं तीर्थङ्करं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेत्यर्थः / प्रपूर्व ‘णम प्रह्वीभावे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ‘आदेः एणः स्नः' (सा० सू० 748) इति नत्वे कृतेऽपि पुनर्णः / अप्० (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रणमत' इति सिद्धम् / अत्र ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / 'श्रेयांसं' श्रेयांसौ अंसौ अस्य (स) श्रेयांसः पृषोदरादिः / विश्वस्यापि श्रेयान्-हितकर इति वा श्रेयांसः / गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या मात्रा आक्रान्ता श्रेयश्च जातं इति वचनात् श्रेयांसः तम् / कथम् ? / द्राक् / यत्तदोरभिसम्बन्धात् तं कम् ? / यस्मात् श्रेयांसाद् अन्यम्-अपरं जनं कं अलसदृशांस्तिमितलोचनानां सरागदृशां वा स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः वलाद-हठाद् मोहवशंरागपरवशं न व्यधुः, न चक्रुः इत्यर्थः / ‘डु धाञ् धारणपोषणयोः' इति धातोः विपूर्वस्य भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् अन् / 'दिबादावट्' (सा० सू० 707), 'दादेः पे' (सा० सू० 725) इति सिलोपः / ‘स्याविदः' (सा० सू० 738) इति अनः उस् / ‘आतोऽनपि' (सा० सू० 805) इत्याकारलोपः / ‘इ यं स्वरे' (सा० सू० 33), ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च 'व्यधुः' इति सिद्धम् / अत्र 'व्यधुः' इति क्रियापदम् / के कर्तारः ? | गीतारावाः / कं कर्मतापन्नम् ? / कम् / कथंभूतं न व्यधुः ? / मोहवशम् / कस्मात् ? / बलात् / कथंभूतं सन्तम् ? / तापितं-दीपितं सन्तम् / केन /