________________ 165 श्रीश्रेयांसजिनस्तुतयः rrrrr 11. श्रीश्रेयांसजिनस्तुतयः अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः .. कमलसदृशां गीतारावा बलादयि तापितम् / प्रणमततरां द्राक् श्रेयांसं न चाहत यन्मनः ___कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् // 1 // 41 // - हरिणी (6,4 ,7) (1) ज० वि०–कुसुमधनुषेति / अयीति कोमलामन्त्रणे / भो भव्याः ! यूयं तं श्रेयांसंश्रेयांसनामानमर्हन्तं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेति क्रियाकारकयोजनम् / अत्र 'प्रणमततराम्' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतापन्नम् ? 'श्रेयांसम्' / कथम् ? 'द्राक्' / यत्तदोरभिसंबन्धात् तं कम् ? यस्मात्'-श्रेयांसाद् ‘अन्यम्'-अपरं जनम् ‘अलसदृशां'-स्तिमितलोचनानां स्त्रीणां नृणां वा 'गीतारावा'-गीतध्वनयः 'बलात्'-हठात् 'मोहवशं'-रागपरंवशं 'न व्यधुः'-न चक्रुः / अत्रापि 'व्यधुः' इति क्रियापदम् / कथम् ? 'न' / के कर्तारः ? 'गीतारावाः' / कं कर्मतापन्नम् ? 'कम्' / कथंभूतं न व्यधुः ? 'मोहवशम्' / कस्मात् ? 'बलात्' / कथंभूतं सन्तम् ? 'तापितं' दीपितं सन्तम् / 1. 'प्रणमततमां' इत्यपि पाठः /