________________ श्रीश्रेयांसजिनस्तुतयः ___अवचूरिः महाकाली देवी प्रजयति-प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते / करैः-हस्तैरुपलक्षिता / किंभूतैः ? / धृताः-स्वीकृता वज्र-फल-जपमाला-घण्टा यैस्ते तथा / देवी किंभूता ? / बोधिता प्रजालोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साधवः / ततः कृतो (विहितो) बोधितप्रजयतीनां महः-पूजा उत्सवो वा यया सा / तथा कालीं-श्यामाम् / दधती-धारयन्ती / काम् ? / स्ववपुलताम् / किंभूताम् ? | अपरिक्षतां-अदूषिताम् / कैः ? / अतिः-पीडा, आधिर्मानसी व्यथा, पङ्कः-कर्दमः कालुष्यम्, जरा-विस्रसा आजिः-प्रधनं तैः / पुनः किंभूताम् ? / अध्यासीनाम् / कम् ? / माधिपं-पुरुषप्रकाण्डम् / करैः किंविशिष्टैः ? / कज़ं-पद्मं तद्वद् राजिभिः-राजनशीलैः // 4 / 11 / 44 //