________________ श्रीशीतलजिनस्तुतयः 157 परिनुन्नजरारजसश्च जननतानवतोदयमाश्च परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / इत्यपि व्याख्येयम् / / इति द्वितीयवृत्तार्थः / / 38 / / (4) दे० व्या०-स्मर जिनानिति / हे जन ! अतः कारणात् जिनान्-तीर्थङ्करान् त्वं स्मर-स्मृतिगोचरीकुरु इत्यन्वयः / ‘स्मृ चिन्तायाम्' इति धातुः / ‘स्मर' इत क्रियापदम् / कः कर्ता ? | त्वम् / कान् कर्मतापन्नान् ? | जिनान् / कुतः ? / यतो-यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' मुक्तिसुखकर्तृन् वर्तन्त इत्यध्याहारः / न हि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिरिति भावः / किंविशिष्टः त्वम् ? आनतः- प्रणतः / कथम् ? | ‘अदयम्' शरीरनिरपेक्षं यथा स्यात् तथा / किंविशिष्टान् जिनान् ? / परिनुन्नजरारुजोजनन्तानवतोदयमान्' जरा-विस्रसा रुजो-रोगाः “रोगो रुजा रुगातङ्कः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 126), जननं-जनिः तानवं-कायँ तोद:-पीडा यमो-मृत्युः, एतेषां पूर्वं 'द्वन्द्वः' / ततः परिनुन्नाः-परिक्षिप्ता जरारुजोजननतानवतोदयमा यैस्ते तथा इति विग्रहः / किं कुर्वतो जिनान् ? / अवतः-रक्षतः / कान् ? / नतान्-प्रणतान् / जनानिति शेषः / / इति द्वितीयवृत्तार्थः / / 38 / / / (5) ध० टीका-स्मरेति / ‘स्मर' स्मृत्याप्नुहि / 'जिनान्' अर्हतः / ‘परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्म जननं-जन्म तानवं-कायँ तोदो-बाधा यमो-मृत्युपतिः, परिनुन्नाःपर्यस्ता यैस्तान् / 'अतः' अस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं निर्वृतिशर्म-निर्वाणसुखं कुर्वन्ति ये ते / 'यतः' यस्मात् कारणात् / जनेति लोकस्यामन्त्रणम् / 'नतान्' प्रहीभूतान् / 'अवतः' त्रायमाणान् / 'अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमिति यावत् तत् तथा भवत्येवम् / 'आनतः' प्रणतः सन् / यतः परमनिर्वृतिशर्मकृतः, अतः स्मर जिनान् हे जनेत्यन्वयः / एवं वा व्याख्यायते / परिनुन्नं जरैव पाण्डुरत्वाद् रजो-रेणुयैस्ते, जनने यः तानवः-शारीरस्तोदः तस्यान्तहेतुत्वात् यमाः, परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / 'परं' स्वात्मनो व्यतिरिक्तम् / 'अनिर्वृतिशर्मकृतः' अनिवृति-नाशरहितं शर्म कुर्वन्ति ये ते / ‘जननतान्' लोकैः प्रणतान् / 'अदयमानतः' दयामकुर्वाणानां सकाशात् / यतः कारणात् अनिवृतिशर्मकृतोऽतः स्मर जिनान् परं अदयमानतोऽवत इति सम्बन्धः / / 38 / / अवचूरिः हे जन ! भव्यलोक ! / अतः-अस्मात् कारणाज्जिनान् स्मर / किंविशिष्टान् ? / परिनुन्नाः