________________ 156 शोभनस्तुति-वृत्तिमाला “यमो दण्डधरे ध्वांक्षे, संयमे यमजेऽपि च / शरीरसाधनापेक्ष-नित्यकर्मणि बोध्यते // " इति विश्वः / केचित् तु रोगवाची रुजस् शब्दोऽप्यस्ति, तेन रजःस्थाने रुज इति पठन्ति / यदाह“रोगे रुजो (रोगो रुजा ?) रुगातङ्को, मान्द्यं व्याधिरपाटवम्” इति हैमः (का० 3, श्लो० 126) / केचित् तु परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुः यैस्ते परिनुन्नजरारजसः, तथा जनने-जननविषये यः तनोरयं तानवः-शारीरस्तोदो-बाधा तत्र यमा इव यमाः कृतान्ता इव तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च इति व्याख्यान्ति / जिनान् किं कुर्वतः ? / अवतो-रक्षतस्त्रायमाणानित्यर्थः / त्वं कथंभूतः सन् स्मरेत्याह-आनतः-प्रणतः सन् / कथम् ? / 'अदयं' 'न विद्यते दया यत्र तत् तथा / प्रणतिविषये स्वशरीरस्यापि रक्षां न कृतवानित्यर्थः / / 38 / / (3) सौ० वृ०-स्मर जिनानिति / हे जन ! हे लोक ! अतः करणात् त्वं जिनान्-तीर्थकरान् स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / ‘स्मर' ध्यायस्व / कान् कर्मतापन्नान् ? / . 'जिनान्' / कथंभूतान् जिनान् ? / परिनुन्नाः-गताः-क्षीणा जरा-विस्रसा वयोहानिरूपा रजः-कर्मरजः जननं-जन्म तानव-शरीरकायँ तोदः-खेदः यमो-मरणं, गता येषां ते परिनुन्नजरारजोजननतानवतोदयमाः, तान् ‘परिनुन्नजरारजोजननतानवतोदयमान्' / कस्मात् ? / अतः कारणात् स्मर / अतः कथम् ? / 'यतः' यस्मात् कारणात् / जिनान् किं कुर्वतः ? / 'अवतः' रक्षतः / कान् कर्मतापन्नान् ? / 'प्रणतान्' जनान् / पुनः कथंभूतान् जिनान् ? / परमं-प्रकृष्टं निर्वृतिः-सिद्धिः-मुक्तिः तस्याः शर्म-सुखं तत् कुर्वन्तीति परमनिर्वृतिशर्मकृतः, तान् परमनिर्वृतिशर्मकृतः / कथम् ? / 'अदयं' निक्बाधं स्वशरीरानपेक्षं यथा स्यात् तथा / कथंभूतः त्वम् ? / 'आनतः' मर्यादया प्रणतः / इति पदार्थः / / अथ समासः-जयन्ति रागादिकान् शत्रून् इति जिनाः, तान् जिनान् / जरा च रजश्च जननं च, तनोर्भावः तानवम्, तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः, परिनुन्ना जरारजोजननतानवतोदयमा यैः ते येषां ते (वा) परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / निर्वृत्याः शर्म निर्वृतिशर्म, परमं च तत् निर्वृतिशर्म च परमनिर्वृतिशर्म, परमनिर्वृतिशर्म कुर्वन्ति ते परमनिर्वृतिशर्मकृतः, तान् / नास्ति दया स्वदेहरक्षणरूपा यस्मिन् तत् अदयम् / अदयं यथा स्यात् तथा, क्रियाविशेषणमिदम् / आङ्-मर्यादया नतः-आनतः / यद्वा परिनुन्नःपरिक्षीणः जरा इव जीर्णमिव रजोवध्यमानं कर्म यैः ते, तथा जननं-जन्म तेन तानवाः-शारीरदुःखेन तोदेन-खेदेन कृशीभूताः तेषां दुःखहरणेन यमा इव यमाः, पञ्चस्वपि कल्याणेषु लोकोद्योतसुखकरत्वात् 1. अत्र 'ध्याय' इति प्रतिभाति /