________________ श्रीशीतलजिनस्तुतयः 155 व्यथा वाधेति यावत्, यमः कृतान्तो मृत्युरितियावत्, एते जरादयः परिनुन्नाः-पर्यस्ता यैस्ते तथा तान् / अथवा परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुयैस्ते तथा, जनने यस्तानवः-शारीरस्तोदो-बाधा तत्र यमा इवकृतान्ता इव यमाः तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / जिनान् किं कुर्वतः ? ‘अवतः' रक्षतः त्रायमाणानितियावत् / कान् ? 'नतान्' प्रणतानङ्गिनः / त्वं कथंभूतः सन् स्मरेत्याह-'आनतः' प्रणतः सन् / कथम् ? ‘अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमितियावत् तत् यथा स्यात् तथा / / अथ समासः-जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / परिनुन्ना जरारजो० यैस्ते परिनुन्नजरारजोजननतानवतोदयमाः ‘बहुव्रीहिः' / अथवा जरैव रजो जरारजः ‘कर्मधारयः' / परिनुन्नं जरारजो यैस्ते परि० ‘बहुव्रीहिः' / तनोरयं तानवः, तानवश्चासौ तोदश्च तानवतोद: ‘कर्मधारयः' / जनने तानवतोदः जनन० 'तत्पुरुषः' / जननतानवतोदे यमाः जनन० 'तत्पुरुषः' / परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च परिनुन्नजरा० 'कर्मधारयः' / तान् परि० / निर्वृतेः शर्म निर्वृतिशर्म 'तत्पुरुषः' / परमं च तन्निवृतिशर्म च परम० 'कर्मधारयः' परमनिर्वृतिशर्म कुर्वन्तीति परमनि० 'तत्पुरुषः' / यद्वा पक्षे तु निर्वृतिशर्म कुर्वन्तीति निर्वृतिशर्मकृतः तत्पुरुषः' / न निवृतिशर्मकृतः अनिवृति० 'तत्पुरुषः' / न विद्यते दया यत्र तददयम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 38 / / .. सि० वृ०-स्मर जिनानिति / हे जन ! अतः कारणात् त्वं जिनान्-तीर्थपतीन् स्मर-स्मरणविषयीकुर्वित्यर्थः / ‘स्मृ चिन्तायां' धातोः “आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / ‘अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692) इत्यनेन गुणः, अतः' (सा० सू० 705) इति हेर्लुक्, ('स्वरहीनं०' सा० सू० 36) / तथाच ‘स्मर' इति सिद्धम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / जिनान् / कस्मात् ? / अतः / अत इति कुतः ? / यतः-यस्मात् कारणात् / परमनिर्वृतिशर्मकृतः / न हि जिनस्मरणमन्तरेण जन्तोः तात्त्विकी सिद्धिरिति भावः / “शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः” इति हैमः (का० 1, श्लो० 74) / कथंभूतान् जिनान् ? / 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणम्, 'रुजो' इति पाठे रुक-रोगः जननं-जन्म तानवं तनो वस्तानवं इति योगात् तनुत्वं दुर्बलत्वमिति यावत्, तोदः 'तुद व्यथने' इत्यस्य धातोः तुदनं-तोदो-व्यथा यमः-कृतान्तः मृत्युरितियावत्, एते जरादयः परिनुन्नाःपरिक्षिप्ता यैस्ते तथा तान् / जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / ततः परिनुन्नपदेन 'बहुव्रीहिः' /