________________ 154 शोभनस्तुति-वृत्तिमाला स्पर्शनानुगृह्णत् / ‘चलनतामरसंसत्' चला नता अमराणां संसत्-सभा यस्य तत् / ‘अलङ्घनं' नास्ति लङ्घनं-अधःकरणं कुतश्चित् यस्य तत् / अम्बुरुहां सम्बन्धि नवकं संस्पृशत् शीतलतीर्थकृतश्चलनतामरसं जयतीति योगः / / 37 / / अवचूरिः शीतलतीर्थकरस्य चलनतामरसं-पादपद्मं जयति / किंभूतम् ? / अम्बुरुहां-कमलानां नवकं पथिमार्गे संस्पृशत् / नवकं किंभूतम् ? / सदलं-सपत्रम् | घनं-सारम् / चलनतामरसं किंभूतम् ? / चला नता च अमराणां संसद् यस्य तत् / नाति लङ्घन-अधःकरणं कुतश्चिद् यस्य तदलङ्घनम् / / 37 / / जिनानां स्मरणम्स्मर जिनान् परिनुन्नजरारंजो जननतानवतोदयमानतः / परमनिर्वृतिशर्मकृतो यतो जन ! नतानवतोऽदयमानतः // 2 // 38 // - द्रुत० (1) . ज० वि०-स्मर जिनानिति / हे जन ! अत इत्यस्मात् कारणात् त्वं जिनान्-वीतरागान् स्मरस्मरणगोचरीकुर्विति क्रियाकारकसंबन्धः / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? 'जिनान्' / कस्मात् ? अतः' / अत इति कुतः ? 'यतः' यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं-उत्कृष्टं निर्वृतिशर्म-मोक्षसुखं कुर्वन्तीति परमनिर्वृतिशर्मकृतः / यद्वा परं स्वात्मनो व्यतिरिक्तं अनिवृतिशर्मकृतः भवन्तीत्यध्याहार्यम् / जिना इति विशिष्यपदं च प्रक्रान्तत्वाज्ज्ञेयम् / ततो भवन्तीति क्रियापदम् / के कर्तारः ? 'जिनाः' / कथंभूताः ? 'परमनिर्वृतिशर्मकृतः' / जिनान् कथंभूतान् ? 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणं जननं-जन्म ‘तानवं' तनो वस्तानवमिति व्युत्पत्त्या तनुत्वं दुर्बलत्वमित्यर्थः, तोद: 'तुद व्यथने' इत्यस्य धातोस्तुदनं तोदो 1. 'नास्ति' इत्यत्र शुद्धीकर्तव्यम् / 2. 'रुजो' इत्यपि पाठः / 3. 'जनन०' इति पाठान्तरम् /