________________ 158 शोभनस्तुति-वृत्तिमाला परिक्षिप्ता जरा-वयोहानिरूपा, रजः-कर्म, जननं-जन्म, तनोर्दुर्बलस्य भावस्तानवं-कार्यम्, तोदो-बाधा, यमो-मृत्युर्यस्तान् / यतः कारणात् परममुक्तिसुखकर्तृन् / न हि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः / नतान् जन्तूनवतो-रक्षतः / अदयं शरीरावयवनिरपेक्षं यथा स्यात् तथा आनतः-प्रणतः सन् त्वम् // 38 / / सिद्धान्त-स्वरूपम्जयति कल्पितकल्पतरूपम मतमसारतरागमदारिणा / प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा // 3 // 39 // -द्वत० . ज० वि०-जयतीति / जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र अस्मिन् जगति जयतिजयमनुभवतीति क्रियाकारकप्रयोगः / अत्र ‘जयति' इति क्रियापदम् / किं कर्तृ ? 'मतम्' / कथंभूतम् ? 'प्रथितम्' / केन ? 'जिनेन' / कुत्र ? ‘अत्र' / जिनेन कथंभूतेन ? 'असारतरागमदारिणा' असारतरःकुत्सिततरो य आगमः-सिद्धान्तः शाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिर्निराकरोतीत्येवंशीलः असारतरागमदारी तेन / पुनः कथंभूतेन ? 'अतमसा' तमसा-मोहेन अज्ञानेन वा रहितेन / पुनः कथंभूतेन ? 'रतरागमदारिणा' रतं-संभोगस्तत्र रागः-अभिलाषः मदः-जात्यादिकः तयोररिणा-वैरिणा तन्निवारणात् / केषाम् ? 'मनीषिणाम्' मतिमताम् / मतं पुनः कथंभूतम् ? 'कल्पितकल्पतरूपमम्' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत् तथा / यदिवा कल्पितेषु-मनःसङ्कल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथा / / अथ समासः-कल्पश्चासौ तरुश्च कल्पतरुः ‘कर्मधारयः' / कल्पतरुणा उपमा कल्पतरूपमा 'तत्पुरुषः' / कल्पिता कल्पतरूपमा यस्य तत् कल्पित० ‘बहुव्रीहिः' / यदिवा कल्पतरोरुपमा यस्य. तत् कल्प० ‘बहुव्रीहिः' / कल्पितेषु कल्पतरूपमं कल्पित० 'तत्पुरुषः' / न सारः असारः 'तत्पुरुषः' / अतिशयेनासारोऽसारतरः / असारतरश्चासावागमश्च असार० 'कर्मधारयः / असारतरागमं दारयतीत्येवंशीलः असारतरा० 'तत्पुरुषः' / तेन असारतरा० / न विद्यते तमो यस्य सोऽतमाः ‘बहुव्रीहिः' / तेन