________________ श्रीशीतलजिनस्तुतयः 151 . . 10. श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुतिःजयति शीतलतीर्थकृतः सदां चलनतामरसं सदलं घनम् / नवकमम्बुरुहां पथि संस्पृशत् ___चलनतामरसंसदलङ्घनम् // 1 // 37 // - द्रुतविलम्बितम् ज० वि०-जयतीति / शीतलतीर्थकृतः-शीतलनाम्नो जिनस्य चलनतामरसं-चरणकमलं सदासर्वकालं जयति-जयमासादयतीति क्रियाकारकसंटङ्कः / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? 'चलनतामरसम्' / कस्य ? शीतलतीर्थकृतः' / कथम् ? 'सदा' | चलनतामरसं किं कुर्वत् ? 'संस्पृशत्' स्पर्शनानुगृह्णत् / किं कर्मतापन्नम् ? 'नवकम्' नवैव नवकम् / स्वार्थे कः प्रत्ययः / केषां नवकम् ? - 'अम्बुरुहाम्' वारिजानाम् / कथंभूतम् ? 'सदलम्' दलैः-पत्रैः सह वर्तमानम् / पुनः कथं० ? 'घनम्' सारम् / चलनतामरसं कथंभूतम् ? 'चलनतामरसंसत्' चला-चपला सती नता-प्रणता अमरसंसत्-देवानां सभा यस्य तत् तथा / चलत्वं च नमतां भूरिभक्तिभरवशेन राभस्यात् सम्भ्रमाद् वा घटते / पुनः कथं० ? | 'अलङ्घनम्' न विद्यते लङ्घन-कुतश्चिदधःकरणं यस्य तत् तथा / केनापि श्रियाऽनिर्जितमित्यर्थः / / 1. 'जयतु' इत्यपि पाठः /