________________ 152 शोभनस्तुति-वृत्तिमाला अथ समासः-तीर्थं करोतीति तीर्थकृत् 'तत्पुरुषः' / शीतलश्चासौ तीर्थकृच्च शीतल० 'कर्मधारयः' / तस्य शीतल० / चलन एव तामरसं चल० 'कर्मधारयः' / सह दलैर्वर्तते यत् तत् सदलं 'तत्पुरुषः' / अम्बुनि रुहन्तीत्यम्बुरुहि 'तत्पुरुषः' / तेषां अम्बुरुहाम् / चला चासौ नता च चलनता ‘कर्मधारयः' / अमराणां संसत् अमरसंसत् 'तत्पुरुषः' / चलनता अमरसंसत् यस्य तत् चलन० 'बहुव्रीहिः' / न विद्यते लङ्घनं यस्य तद् अलङ्कनम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 37 / / (2) सि० वृ०-जयतीति / समस्तसत्त्वसन्तापोपशामकत्वाद् गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो मातृहस्तस्पर्शादेवोपशान्त इति वा शीतलः स चासौ तीर्थकृच्च शीतलतीर्थकृत् तस्य शीतलनाम्नस्तीर्थकृतः-शीतलनाम्नः तीर्थकरस्य चलनतामरसंचरणकमलं सदासर्वकालं जयति-सर्वोत्कर्षेण वर्तत इत्यर्थः / 'जयतु' इति पाठे जयमासादयतु इत्यर्थः / 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'जयति' इति सिद्धम् / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? / चलनतामरसम् / चलनमेव तामरसं चलनतामरसमिति ‘कर्मधारयः' / कस्य ? | शीतलतीर्थकृतः / कथम् ? / सदा / किं कुर्वत् चलनतामरसम् ? / 'संस्पृशत्' स्पृशतीति स्पृशत् स्पर्शनानुगृह्णत् / किं कर्मतापन्नम् ? / नवकं नवैव नवकम् / स्वार्थे कः / नवकं केषाम् ? / अम्बुरुहांवारिजानां अम्बुनि-जले रुहन्ति-जायन्ते इति अम्बुरुहि तेषां अम्बुरुहाम् / योगपुरस्कारेण अम्बुरुहशब्दस्य कमले एव रूढत्वात् / कस्मिन् ? / पथि-मार्गे / कथंभूतं अम्बुरुहां नवकम् ? | ‘सदलं' दलानि-पत्राणि तैः सह वर्तमानं सदलम् / “पत्रं पलाशं छदनं दलं पण छदः पुमान्” इत्यमरः (श्लो० 676) / पुनः कथंभूतम् ? / घन-सान्द्रम् / “घनं स्यात् कांस्यतालादि, वाद्यमध्यमनृत्तयोः”, “घनं सान्द्रे दृढे दाये, विस्तारे लोहमुदगरे / मेघमुस्तकयोश्चापि” इति विश्वः / अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति / कथंभूतं चलनतामरसम् ? / 'चलनतामरसंसत्' चला-चपला सती नता-प्रणता अमरसंसत्अमराणां सभा यस्य तत् तथा / चलत्वं च नमतां भूरि-भक्तिवशेन राभस्याद् सम्भ्रमाद् वा घटते / पुनः कथंभूतम् ? / 'अलङ्घनं' न विद्यते लङ्घनं-कुतश्चिदधः-करणं यस्य तत् तथा / केनापि श्रिया अनिर्जितमित्यर्थः / / 37 / / सौ० वृ०-यः सुविधिर्भवति स प्रकृत्या शीतल एव भवति / अनेन संबन्धेनायातस्य दशमस्य श्रीशीतलजिन(स्य) स्तुतेरर्थो व्याख्यायते / जयतीति / शीतलतीर्थकृतः-शीतलनाम्नस्तीर्थकरस्य