________________ श्रीसुविधिजिनस्तुतयः 149 "को ब्रह्मात्मानिलार्केषु, शमने सर्वनाम्नि च / पावकेषु मयूरे च, सुखशीर्षजलेषु कम् // " इति विश्वः / कस्य ? / तव / कथम् ? / आशु / कथंभूता ज्वलनायुधा ? | ‘अल्पमध्या' अल्पंअणु मध्यं-अवलग्नं यस्याः सा तथा / “मध्योऽवलग्नं” इति हैमः (का० 3, श्लो० 271) / पुनः कथंभूता ? / सिता शुक्लवर्णा / पुनः कथंभूता ? | ‘अस्तेन्दुः' अस्तः-धिक्कृतः इन्दुः-चन्द्रो यया सा तथा / कया ? / रुचा कान्त्या / कस्य ? / आस्यस्य-वदनस्य / आस्यस्य कथंभूतस्य ? / 'प्रवरालकस्य' प्रकर्षण वराः-प्रधानाः कुटिला वा अलकाः-चूर्णकुन्तला यस्मिन् तत् तथा तस्य / “अलकाश्चूर्णकुन्तलाः” (श्लो० 1265) / यदाह-“स्वभाववक्राण्यलकानि केषां” इति भारविः / पुनः कथंभूता ज्वलनायुधा ? | अध्यासिता-आरूढा / किं कर्म ? / ‘पृष्ठं पृष्ठदेशस्तत् / “पृष्ठं तु चरमं तनोः” इति हैमः (का० 3, श्लो० 265) / पृष्ठं कीदृशम्? उरु-विशालम् / कस्य ? | ‘अकम्प्रवरालकस्य' कम्पनशीलः कम्प्रः, न कम्प्रः अकम्प्रः-स्थिरो यो वरालको-देववाहनविशेषस्तस्य / उपेन्द्रवज्राच्छन्दः / “उपेन्द्रवज्रा जतजा गयुग्मौ” इति च तल्लक्षणम् / / 36 / / // इति महोपाध्याय० श्रीसुविधिजिनस्य स्तुतिवृत्तिः // 4 / 9 / 36 // - (3) सौ० वृ०-दिश्यादिति / ज्वलनायुधानाम्नी देवी आशु-शीघ्रं तव-भवतः कं-सुखं दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का कर्जी ? | ‘ज्वलनायुधा' / 'दिश्यात्' दद्यात् / किं कर्मतापन्नम् ? / 'कं' सुखम् / कस्य ? / 'तव' / कथम् ? / 'आशु' शीघ्रम् / कथंभूता ज्वलनायुधा ? / अल्पं-कृशं मध्यं-उदरं यस्याः सा 'अल्पमध्या', कृशोदरी इत्यर्थः / पुनः कथं० ज्वलनायुधा ? / 'सिता' उज्ज्वला-गौरवर्णा | पुनः कथं० ज्वलनायुधा ? / 'प्रवरा' प्रधाना / पुनः कथं० ज्वलनायुधा ? / 'अस्तेन्दुः' न्यक्कृतचन्द्रा / कया ? / 'रुचा' कान्त्या / कस्य ? / 'आस्यस्य' मुखस्य / पुनः किं० ज्वलनायुधा ? / 'अध्यासिता' आरूढा / कं कर्मतापन्नम् ? / 'उरु' विस्तीर्णं पृष्ठं' पृष्ठ देशम् / उरुपृष्ठं कस्य ? / अकम्पः-स्थिरः वरालको-देववाहनविशेषः तथा वरः-प्रधानः अलको हुडुविशेषः, तस्य अकम्प्रवरालकस्य / तथा किंविशिष्टस्य आस्यस्य ? | प्रवराः-प्रधानाः अलकाः-केशा यस्मिन् तत् प्रवरालकम्, तस्य प्रवरालकस्य / “कं सुखे सलिले शीर्षे' इत्यनेकार्थः / इति पदार्थः / / अथ समासः-ज्वलनं-शस्त्रं आयुधं यस्याः सा ज्वलनायुधा / अल्पं मध्यं यस्याः सा अल्पमध्या / अस्तः इन्दुः यया सा अस्तेन्दुः / उरु च तत् पृष्ठं च उरुपृष्ठम् / कम्पनशीलः कम्प्रः, न कम्प्रः अकम्प्रः, अकम्प्रश्चासौ वरालकश्च अकम्प्रवरालकः, तस्य अकम्प्रवरालकस्य / / इति चतुर्थवृत्तार्थः / / 36 / /