________________ 148 शोभनस्तुति-वृत्तिमाला ज्वलनायुधायै विज्ञापनादिश्यात् तवाशु ज्वलनायुधाऽल्प मध्या सिता कं प्रवरालकस्य / अस्तेन्दुरास्यस्य रुचो पृष्ठ मध्यासिताऽकम्प्रवरालकस्य // 4 // 36 // - - इन्द्रवज्रा (1) ज० वि०-दिश्यादिति / हे भव्यप्राणिन् ! ज्वलनायुधा ज्वलनायुधाभिधा देवी आशु-शीघ्रं कंसुखं दिश्यात्-देयादिति क्रियाकारकान्वयः / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'ज्वलनायुधा' / किं कर्मतापन्नम् ? 'कम्' / कस्य ? 'तव' / कथम् ? 'आशु' / ज्वलनायुधा कथंभूता ? 'अल्पमध्या' अल्पं-क्षामं मध्यं-कटिर्यस्याः सा तथा / पुनः कथं० ? 'सिता' शुक्लवर्णा / पुनः कथं० ? 'अस्तेन्दुः' न्यक्कृतमृगाङ्का / कया ? 'रुचा' कान्त्या / कस्य ? 'आस्यस्य' वदनस्य | आस्यस्य कथंभूतस्य ? 'प्रवरालकस्य' प्रधानचिकुरस्य / पुनः कथंभूता ज्वलनायुधा ? 'अध्यासिता' अध्यारूढा / किं कर्मतापन्नम् ? 'पृष्ठम्' उपरिभागम् / पृष्ठं कथंभूतम् ? 'उरु' विशालम् / कस्य ? 'अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालकः-देववाहनविशेषः तस्य / / / अथ समासः-ज्वलन एव आयुधं यस्याः सा ज्वल० ‘बहुव्रीहिः' | अल्पं मध्यं यस्याः सा अल्पमध्या 'बहुव्रीहिः' / प्रवरा अलका यस्मिन् तत् प्रवरालकम् ‘बहुव्रीहिः' / तस्य प्रव० / अस्त इन्दुर्यया सा अस्तेन्दुः ‘बहुव्रीहिः' / न कम्पः अकम्प्रः 'तत्पुरुषः' / अकम्प्रश्वासौ वरालकश्च अकम्प्र० 'कर्मधारयः' / तस्य अकम्प्र० / / इति काव्यार्थः / / 36 / / / // इति शोभनस्तुतिवृत्तौ श्रीसुविधिजिनस्तुतेर्व्याख्या // 4 / 9 / 36 // (2) सि० वृ०-दिश्यादिति / हे भव्य ! प्राणिन् ! ज्वलनायुधा देवी तव-भवतः आशु-शीघ्र कं-सुखं दिश्यात्-देयादित्यर्थः / 'दिश अतिसर्जने' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'दिश्यात्' इति क्रियापदम् / का की ? / 'ज्वलनायुधा' ज्वलन एव आयुधं यस्याः सा / किं कर्मतापन्नम् ? / कम् / 1. 'उरुपृष्ठं' इत्येकपदमपि संभवति /