________________ 147 भावापानमrrrrrrrrrrr रत्या ईशः रतीशः, तस्य रतीशस्य / अथवा रतीशं स्यति-स्पर्धयतीति रतीशस्यः, तस्य सं० हे रतीशस्य ! / स्तवः-स्तुतिः तस्य इनः-स्वामी स्तवेनः, तस्य सं० हे स्तवेन ! / सकलशब्दमात्रेण तव गुणान् वक्तुमशक्यत्वादिति / / इति तृतीयवृत्तार्थः / / 35 / / देव व्या०-जिनेन्द्र ! भङ्गैरिति / हे जिनेन्द्र ! हे इन ! ते-तव भारती-वाणी आशु-शीघ्रं यथा स्यात् तथा मे-मम शर्म दिश्यात्-देयादित्यन्वयः / 'दिश अतिसर्जने' धातुः / 'दिश्यात्' इति क्रियापदम् / का की ? / भारती / कस्य ? / तव / किं कर्मतापन्नम् ? / शर्म / कस्य ? | मम / किंविशिष्टा भारती ? / गभीरा अलब्धमध्या / कैः ? / भङ्गः-अर्थविकल्पैः / पुनः किंविशिष्टा ? / शुभा-समीचीना / यदा तु शुभापदेन मता इत्यर्थः तदा सर्वेषामिति शेषः / किं कुर्वती भारती ? / निर्नाशयन्ती-नाशं प्रापयन्ती / किम् ? / तमः-अज्ञानम् / केन ? / 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः, शस्यतमः यः स्तवःस्तुतिः तेन / “स्तवः स्तोत्रं स्तुतिर्नुतिः” इत्यभिधानचिन्तामणिः (का०२, श्लो० 183) / किं विशिष्टस्य तव ? / 'रतीशस्य' कामतुल्यस्य / रूपेणेति शेषः / वस्तुतस्तु रतीशस्येत्यत्राकारप्रश्लेषः / तेन अरतीशस्य-कामरहितस्येत्यर्थः / / इति तृतीयवृत्तार्थः / / 35 / / ध० टीका-जिनेन्द्रेति / 'जिनेन्द्र !' सर्ववेदिन् ! / 'भङ्गैः' अर्थविकल्पैः / 'प्रसभं' प्रकटम् / 'गभीरा' दुरवगाहा / 'आशु' शीघ्रम् / 'भारती' वाक् / 'शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवेन / स्तुत्या हेतुभूतया / 'निर्नाशयन्ती' अपनुदन्ती / 'मम शर्म दिश्यात्' मे सुखं अतिसृज्यात् / 'शुभा' कल्याणी / ‘अरतीशस्य' रतीशः-स्मरः स नास्ति यस्य / ‘तमः' मोहम् / 'तव' भवतः / ‘इन !" स्वामिन् ! / हे जिनेन्द्र ! इन ! तव भारती स्तवेन तमो निर्नाशयन्ती मम आशु शर्म दिश्यात् इति योगः अथवा रतीशस्य सम्बन्धि तमः शस्यतमो यः स्तवस्तेन निर्नाशयन्तीति व्याख्येयम् / / 35 / / (6) अवचूरिः .. हे जिनेन्द्र ! तव भारती मम शर्म-सुखं देयात् / किंभूता ? / भङ्गैः-अर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमः-अज्ञानं निर्नाशयन्ती / केन ? शस्यतमः-चारुतमो यः स्तवस्तेन हेतुभूतेन / शुभा-प्रकृष्टा / तव कीदृशस्य ? / अरतीशस्य-अकामस्य / हे इन ! स्वामिन् / / 35 / /