________________ 146 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-जिनेन्द्र ! भङ्गैरिति / जिनानामिन्द्रः जिनेन्द्रः तस्य सम्बोधनं क्रियते हे जिनेन्द्र ! हे प्रभो ! तव-भवतः भारती-वाणी आशु-शीघ्रं प्रसभं-प्रकटं शर्म-सुखं मे दिश्यात्-देयादित्यर्थः / 'दिश अतिसर्जने' आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनप्रकारस्तु पूर्वमेवोक्तः / अत्र 'दिश्यात्' इति क्रियापदम् / का की ? / भारती / “वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती” इति हैमः (का० 2, श्लो० 155) / किं कर्मतापन्नम् ? / शर्म / “शर्मसातसुखानि च” इत्यमरः (श्लो० 264) / कस्य ? / मम / कस्य भारती ? / तव / कथम् ? / आशु / “आशुर्वीहौ च सत्वरे” इति विश्वः / शर्म कथंभूतम् ? / प्रसभम् / कथंभूता भारती? | गभीरा-दुरवगाहा / कैः कृत्वा ? / भङ्गैः-अर्थविकल्पैः / किं कुर्वती ? / निर्नाशयन्ती-नाशं प्रापयन्ती / किम् ? / तमः-मोहं शोकं वा / केन ? / 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः स चासौ स्तवः-स्तोत्रं तेन हेतुभूतेन / तथा च शस्यतमस्तवेन स्तुता सती तमो निर्नाशयतीति भावः / पुनः कथंभूता ? / शुभा-कल्याणी / कथंभूतस्य तव ? / 'अरतीशस्य' रतेः ईशो रतीशः-कामः स न विद्यते यस्य स तथा तस्य / अथवा अकारप्रश्लेषमकृत्वा तमः कस्य सम्बन्धि ? / रतीशस्य-कामस्येति व्याख्येयम् / अन्ये तु कीदृशस्य तव ? रतीशस्य कामस्येत्यर्थः, अभेदरूपकम् / अपरे तु रतीशस्येत्यत्र रूपेणेति शेषः कर्तव्य इत्याहुः / / 35 / / सौ० वृ०-जिनेन्द्र ! भलैरिति / हे जिनेन्द्र !-हे सर्ववेदिन् ! तव-भवतः भारती-वाणी मम शर्मसुखं आशु दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का कर्जी ? | 'भारती' / 'दिश्यात्' दद्यात् / किं कर्मतापन्नम् ? / 'शर्म' सुखम् / भारती कस्य ? / 'तव' / कथंभूता भारती ? / 'गभीरा' अस्ताघा (?) दुरवगाहा / कैः ? / 'भङ्गैः' अर्थविकल्पैः / कथम् ? / 'प्रसभं' बलात्कारेण | भारती किं कुर्वती ? | 'निर्नाशयन्ती' क्षपयन्ती / किं कर्मतापन्नम् ? | 'तमः' आन्ध्यं अज्ञानं वा / केन ? / शस्यतमःअतिशयेन प्रशस्यतरः यः स्तवः-स्तोत्रं तेन ‘शस्यतमस्तवेन' | पुनः कथंभूता भारती ? / 'शुभा' भव्या / कस्य ? / रत्या ईशः रतीशः-कामः, न विद्यते रतीशो यस्य सः अरतीशः तस्य ‘अरतीशस्य' एतावता साधोः / हे 'इन !' स्वामिन् ! / जातावेकवचनम् / यद्वा रतीशः-कामः तं प्रति स्यति स्पर्धयतीति रतीशस्यः तस्य सं० हे रतीशस्य ! / अथवा रतीशस्य-कामस्य तमो-मोहः तं प्रति नाशयति इति / हे जिनेन्द्र ! हे इन ! हे रतीशस्य तव (भारती) स्तवेन मम शर्म दद्यात् / इति पदार्थः / / अथ समासः-जिनानाम् इन्द्रः जिनेन्द्रः, तस्य सं० हे जिनेन्द्र ! / अतिशयेन शस्य इति शस्यतमः, शस्यतमश्चासौ स्तवश्च शस्यतमस्तवः, तेन शस्यतमस्तवेन / निर-निश्चयेन नाशयन्ती निर्नाशयन्ती /