________________ श्रीसुविधिजिनस्तुतयः 145 अवचूरिः या सारा-श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत्-गदितवती सा मम अलं-अत्यर्थं मुदंप्रीतिं दिश्याद् दद्यात् / कथंभूता ? / पादयुग्मं धारयन्ती / राजिनी-राजनशीला नाना-बहुविधा अमला पद्ममाला यस्य तत्पादयुगम् / / 34 / / जिनवाणी- . जिनेन्द्र ! भङ्गैः प्रसभं गभीरा ऽऽशु भारती शस्यतमस्तवेन / निर्नाशयन्ती मम शर्म दिश्यात् शुभाऽरतीशस्य तमस्तवेन ! // 3 // 35 // - उपजातिः ज० वि०-जिनेन्द्र ! भङ्गैरिति / हे जिनेन्द्र !-जिनेश्वर ! हे इन !-प्रभो ! तव-भवतः भारती-वाणी आशु-शीघं प्रसभं-प्रकटं शर्म-सुखं मम-मे दिश्यात्-देयादिति क्रियाकारकप्रयोगः / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'भारती' / किं कर्मतापन्नम् ? 'शर्म' / कस्य ? 'मम' / कस्य भारती ? 'तव' / कथम् ? 'आशु' / शर्म कथंभूतम् ? 'प्रसभम्' / भारती कथंभूता ? 'गभीरा' दुरवगाहा / कैः कृत्वा ? 'भङ्गैः' अर्थविकल्पैः / किं कुर्वन्ती ? 'निर्नाशयन्ती' अपनुदन्ती / किं कर्मतापन्नम् ? 'तमः' मोहम् / केन ? 'शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवनेन हेतुभूतेन / शस्यतमस्तवेन स्तुता सती तमो निर्नाशयतीति हार्दम् / पुनः कथं० ? 'शुभा' कल्याणी / तव कथंभूतस्य ? 'अरतीशस्य' रतीशः-कामः स न विद्यते यस्य स तथा तस्य / अथवा अकारप्रश्लेषमकृत्वा / तमः कस्य संबन्धि ? रतीशस्य' कामस्येति व्याख्येयम् / / .. अथ समासः-जिनानामिन्द्रो जिनेन्द्रः 'तत्पुरुषः' / तत्सम्बोधनं हे जिनेन्द्र ! / अतिशयेन शस्यः शस्यतमः / शस्यतमश्चासौ स्तवश्च शस्य० 'कर्मधारयः' / तेन शस्य० / रतेरीशो रतीशः 'तत्पुरुषः' / न विद्यते रतीशो यस्य सोऽरतीशः ‘बहुव्रीहिः' / (तस्य) इति काव्यार्थः / / 35 / / 1. 'शुभा रती०' इत्यपि पाठः /