________________ 144 शोभनस्तुति-वृत्तिमाला गदितवती / कानि कर्मतापन्नानि ? / हितानि' / कस्मै ? / 'जन्तुजाताय' / कथंभूता जिनानां राजी ? / 'सारा' श्रेष्ठा / सा जिनानां राजी ममापि अलं-अत्यर्थं मुदं-हर्षं दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का की ? / 'राजी' / 'दिश्यात्' दद्यात् / कां कर्मतापन्नाम् ? / 'मुदम्' / कस्य ? / 'मम' / सा जिनराजी किं कुर्वाणा ? / 'दधाना' धारयन्ती / किं कर्मतापन्नम् ? | ‘पादयुगं' चरणद्वयम् / कथंभूतं पादयुगम् ? / राजीनि-विराजन्ति यानि नाना-विधानि अमलानि-निर्मलानि पद्मानि-कमलानि तेषां माला-श्रेणिः यस्य तत् ‘राजिनानामलपद्ममालम्' / इति पदार्थः / / अथ समासः-जन्तूनां जातं जन्तुजातं, तस्मै जन्तुजाताय / पादयोर्युगं पादयुगम् / दधातीति दधाना / पद्मानां माला पद्ममाला, अमला चासौ पद्ममाला च अमलपद्ममाला, राजिनी नाना-विचित्रा, अमलपद्ममाला यस्य तत् राजिनानामलपद्ममालम् / / इति द्वितीयवृत्तार्थः / / 34 / / (4) दे० व्या०-या जन्तुजातायेति / सा जिनानां-तीर्थङ्कराणां राजी-पङ्क्तिः मम मुदं-हर्षं अलं-अत्यर्थं यथा स्यात् तथा दिश्यात्-दद्यात् इति सम्बन्धः / 'दिश अतिसर्जने' धातुः / 'दिश्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कां कर्मतापन्नाम् ? / मुदम् / कस्य ? / मम / किंविशिष्टा राजी ? / 'सारा' सारं-बलं विद्यते यस्यां सा तथा, अनन्तबलत्वात् / अथवा सारा-श्रेष्ठा, सर्वेभ्यः उत्कृष्टत्वात् / यत्तदोर्नित्याभिसंबन्धाद् या जिनानां राजी जन्तुजाताय-प्राणिमात्राय हितानि पथ्यानि अलपत्-गदितवतीत्यन्वयः / लप लपने' धातुः / ‘अलपत्' इति क्रियापदम् / का की ? / जिनानां राजी / कानि कर्मतापन्नानि ? / हितानि / कस्मै ? | जन्तुजाताय / किं कुर्वाणा जिनराजी ? / दधानाधारयन्ती / किम् ? / पादयुगं-चरणयुगलम् / पादयोः युगं पादयुगं इति समासः / किंविशिष्टं पादयुगम् ? / 'राजिनानामलपद्ममालम्' राजिनी-राजनशीला नाना-बहुविधा अमला-निर्मला पद्ममालाकमलस्रक् यस्य तत् / मालाशब्देन श्रेणिर्वा / / इति द्वितीयवृत्तार्थः / / 34 / / ध० टीका-या जन्तुजातायेति / 'या' / 'जन्तुजाताय' प्राणिसमूहाय / 'हितानि' पथ्यानि / 'राजी' श्रेणिः / ‘सारा' श्रेष्ठा / 'जिनानां' अर्हताम् / 'अलपत्' गदितवती / 'मम' मे / 'अलं' अत्यर्थम् / 'दिश्यात्' वितीर्यात् / ‘मुदं' आनन्दम् / ‘पादयुगं' अंहिद्वयम् / 'दधाना' बिभ्रती / ‘सा' / ‘राजिनानामलपद्ममालं' राजिनी-राजनशीला नाना-प्रकारा अमला पद्ममाला यस्य तत् / या जिनानां राजी जन्तुजाताय हितानि अलपत् सा ममालं मुदं दिश्यात् इति सम्बन्धः / / 34 / /