________________ श्रीसुविधिजिनस्तुतयः 143 कमलस्रक् यस्य तत् तथा / यत्तदोरभिसम्बन्धात् सा का ? या जिनानां राजी जन्तुजाताय-प्राणिसमूहाय हितानिपथ्यानि अलपत्-पर्यभाषत / अत्रापि ‘अलपत्' इति क्रियापदम् / का की? 'या' / कानि कर्मतापन्नानि ? 'हितानि' / कस्मै ? 'जन्तुजाताय' / अथ समासः-जन्तूनां जातं जन्तुजातं 'तत्पुरुषः' तस्मै जन्तुजाताय / पादयोयुगं पादयुगं 'तत्पुरुषः' / पद्मानां माला पद्ममाला 'तत्पुरुषः' / न विद्यते मलो यस्याः सा अमला 'बहुव्रीहिः' / अमला चासौ पद्ममाला च अमलपद्ममाला 'कर्मधारयः' / नाना-विधा चासावमलपद्ममाला च नाना० 'कर्मधारयः' राजिनी नानामलपद्ममाला यस्य तत् राजिनानाम० 'बहुव्रीहिः' / / इति काव्यार्थः / / 34 / / . (2) सि० वृ०-या जन्तुजातायेति / सा जिनानां राजी-श्रेणी मम अलं-अत्यर्थं मुदं-हर्षं दिश्यात्देयादित्यर्थः / 'दिश अतिसर्जने' धातोः कर्तरि आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘दिश्यात्' इति सिद्धम् / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? | राजी / केषाम् ? / जिनानाम् / कां कर्मतापन्नाम् ? / मुदम् / “मुत्प्रीत्यामोदसम्मदाः” इति हैमः (का० 2, श्लो० 230) / कथम् ? / अलम् / “अलं भूषणपर्याप्तिवारणेषु निरर्थक / अलं शक्तौ च निर्दिष्टं" इति विश्वः / कस्य ? मम / अस्मच्छब्दस्य षष्ठ्येकवचने ममादेशः / कथंभूता जिनानां राजी ? / साराश्रेष्ठा सर्वेभ्य उत्कृष्टत्वात् / सारः-बलं विद्यते यस्यां सा इति वा, अनन्तबलत्वात् / “सारो बले स्थिरांशे च, न्याय्ये क्लीवं वरे त्रिषु” इत्यमरः (श्लो० 2677) / किं कुर्वाणा ? | ‘दधाना' धत्ते इति दधाना बिभ्रती / किं कर्मतापन्नम् ? / पादयोः-चरणयोर्युग-युग्मम् / पादयुगमिति 'तत्पुरुषः' / “पादा रश्म्यघितुर्यांशाः” इत्यमरः / कथंभूतं पादयुगम् ? / 'राजिनानामलपद्ममालं' राजिनी-राजनशीला सा चासौ नाना-अनेकप्रकारा अमला-निर्मला सा चासौ पद्मानां कमलानां माला-सक् यस्य तत् तथा / यत्तदोरभिसम्बन्धात् सा का ? / या जिनानां राजी जन्तुजाताय-प्राणिसमूहाय हितानि-पथ्यानि अलपत्पर्यभाषदित्यर्थः / ‘लप लपने' धातोः अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिबादावट्' (सा० सू० 707), 'अप्' (सा० सू० 691) / तथा च ‘अलपत्' इति सिद्धम् / अत्र ‘अलपत्' इति क्रियापदम् / का की ? / या / कानि कर्मतापन्नानि ? / हितानि / “हितं पथ्ये गते धृते” इति विश्वः / कस्मै ? / 'जन्तुजाताय' जन्तवः-प्राणिनस्तेषां जातं-समूहः तस्मै जन्तुजाताय / / 34 / / सौ० वृ०-या जन्तुजातायेति / या जिनानां-अर्हतां राजी-श्रेणिः. जन्तुजाताय-प्राणिवृन्दाय हितानि-पथ्यानि अलपत् इत्यन्वयः / ‘अलपत्' इति क्रियापदम् / का की ? / 'राजी' / 'अलपत्' 1. धातोरात्मनेपदत्वेनाऽत्र 'पर्यभाषतेत्यर्थः' इत्युचितम् /