________________ 142 शोभनस्तुति-वृत्तिमाला ध० टीका-तवाभिवृद्धिमिति / 'तवाभिवृद्धिं' भवतोऽभ्युदयम् / ‘सुविधिः' पुष्पदन्तः / 'विधेयात्' क्रियात् / 'स' / 'भासुरालीनतपाः' भासुरं-घोरं आलीनं-आश्रितं तपः-अनशनादिरूपं यस्य सः / 'दयावन् !' करुणान्वित ! / 'यः' / 'योगिपङ्क्तया' यतिपरम्परया / 'प्रणतः' प्रणिपतितः / 'नभःसत्सभासुरालीनतपादया' नभःसत्सभा-सुरपर्षत् असुराली-दैत्यसंहतिः ताभ्यां नतौ पादौ यस्यास्तया / 'अवन्' रक्षन् / हे दयावन् ! स सुविधिः तव समृ(अभिवृ)द्धिं विधेयात्, यो योगिपङ्क्तया प्रणत इति योगः / / 33 / / अवचूरिः स सुविधिर्जिनो हे दयावन् जन ! तव समृद्धिं क्रियात् / भासुरं-घोरमालीनं-आश्रितं तपः-अनशनादिरूपं यस्य सः / यः स्वामी अवन्-रक्षन् योगिवृन्देन प्रकर्षण नतः / योगिपङ्क्तया कथंभूतया ? | नभःसदो-देवास्तेषां सभा-पर्षत् असुरावली-असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया / / 33 / / जिनेश्वरेभ्योऽभ्यर्थनाया जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् / दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् // 2 // 34 // - इन्द्रवज्रा (1) ज० वि०-या जन्तुजातायेति / सा जिनानां-तीर्थकृतां राजी-श्रेणी मम अलं-अत्यर्थं मुदं-हर्ष दिश्यात्-देयादिति क्रियाकारकसंयोजनम् / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'राजी' / केषाम् ? 'जिनानाम्' / कां कर्मतापन्नाम् ? 'मुदम्' कथम् ? 'अलम्' | जिनानां राजी कथंभूता ? 'सारा' श्रेष्ठा / किं कुर्वाणा ? 'दधाना' बिभ्रती / किं कर्मतापन्नम् ? ‘पादयुगं' चरणयुगलम् / कथंभूतं पादयुगम् ? राजिनानामलपद्ममालं' राजिनी-राजनशीला नाना-विविधप्रकारा अमला-निर्मला पद्ममाला