________________ श्रीसुविधिजिनस्तुतयः 141 ++++ +++++++++++++++++++++++++ हे दयावन् !-दयायुक्त ! सुविधिः जिनः तव-भवतः अभिवृद्धिं-समृद्धिं विधेयात् इत्यन्वयः / कः कर्ता ? / 'सुविधिः' पुष्पदन्तापरनामा / 'विधेयात्' कुर्यात् / कां कर्मतापन्नाम् ? / 'अभिवृद्धिम्' / कस्य ? / 'तव' / कथंभूतः सुविधिः ? / भासुरं-दीप्यमानं आलीनं-कृतं-आदृतं तपोऽनशनादिभेदेन यस्य स ‘भासुरालीनतपाः' / भव्यैरिति शेषः / पुनः सुविधिः किं कुर्वन् ? / 'अवन्' पटकायजन्तुं रक्षन् / पुनः किंवि० सुविधिः ? / 'सः' सः-प्रसिद्धः / सः कः ? / यः योगिपङ्क्तया प्रणत इत्यन्वयः / 'प्रणतः' इति क्रियापदम् / कया का ? / 'योगिपङ्क्तया' योगिवृन्देन / ('प्रणतः') प्रकर्षण नतो-नमितः / कः कर्मतापन्नः ? / 'यः' सुविधिः / कथंभूतया योगिपङ्क्तया ? / नभःसदो-देवाः तेषां सभा-पर्षत्, असुरा-नागकुमारादयः तेषां आली-श्रेणिः तया नताः पादाः यस्याः सा नभःसत्सभासुरालीनतपादा, तया 'नभःसत्सभासुरालीनतपादया' / एतादृशः सुविधिः तव समृद्धिं करोतु / इति पदार्थः / / .. अथ समासः-अभि-सामस्त्येन-सर्वप्रकारेण वृद्धिः अभिवृद्धिः, तां अभिवृद्धिम् / सु-शोभनो विधिः-आचारो यस्य स सुविधिः / पुष्पवत् दन्ता यस्य स पुष्पदन्तः / अनुक्तोऽप्युक्तः / भासुरं-घोरं आलीनं तपो यस्य स येन वा भासुरालीनतपाः / दया अस्यास्तीति दयावान्, तस्य सं० हे दयावन् ! / प्रशस्ता मनोवाक्कायव्यापारा येषां सन्ति ते योगिनः, योगिनां पंक्तिः योगिपंक्तिः, तया योगिपङ्क्तया, प्रकर्षेण नतः प्रणतः / नभसि सीदन्ति-तिष्ठन्ति ते नभःसदः, नभःसदां सभा नभःसत्सभा, असुराणां आली असुराली, नभःसत्सभा च असुराली च नभःसत्सभासुराल्यौ, नभःसत्सभासुरालीभ्यां नताः पादा यस्याः सा नभःसत्सभासुरालीनतपादा, तया नभःसत्सभासुरालीनतपादया / अवति-रक्षति इति अवन् / अस्यां स्तुतौ इन्द्रवज्रा (?) च्छन्दः / / इति प्रथमवृत्तार्थः / / 33 / / . . दे० व्या०-तवाभिवृद्धिमिति | हे 'दयावन् !' दया विद्यते यस्यासौ दयावान्, तस्यामन्त्रणम् / तेतव सुविधिः-सुविधिनाथः अभिवृद्धिं-समृद्धिं विधेयात्-क्रियात् इत्यन्वयः / ‘डुधाञ् धारणपोषणयोः' इति धातुः / 'विधेयात्' इति क्रियापदम् / कः कर्ता ? | सुविधिः / कां कर्मतापन्नाम् ? / अभिवृद्धिम् / कस्य ? / तव / किंविशिष्टः सुविधिः / 'भासुरालीनतपाः' भासुरं-घोरम् आलीनं-आदृतम् अनशनादिरूपं तपो येन स तथा / पुनः किंविशिष्टः ? / 'अवन्' अवति-रक्षति इत्यन्वयः, षट्कायाभयदानदायकत्वात् / यत्तदोर्नित्याभिसम्बन्धाद् यः सुविधिः ‘योगिपङ्क्तया' योगिनां-तपस्विनां पङ्क्तिः श्रेणिः तया प्रणतःनमस्कृतः अस्ति इत्यनुषङ्गः / 'अस्ति' इति क्रियापदम् / कः कर्ता ? / सुविधिः / किंविशिष्टः सुविधिः ? / प्रणतः / कया ? / योगिपङ्क्तया / “आपरमाणुदर्शिनो योगिनः” इति यौगिकार्थः / किंविशिष्टया योगिपङ्क्तया ? / 'नभःसत्सभासुरालीनतपादया' नभःसदां-देवानां सभा-पर्षत् असुरालीअसुरश्रेणी ताभ्यां नतौ पादौ यस्याः सा तथा / / इति प्रथमवृत्तार्थः / / 33 / /