________________ 140 ___ शोभनस्तुति-वृत्तिमाला ___ अथ समासः-शोभनो विधिर्यस्य स सुविधिः ‘बहुव्रीहिः' / भासुरं च तदालीनं च भासुरालीनं 'कर्मधारयः' / भासुरालीनं तपो यस्य स भासु० 'बहुव्रीहिः' / योगिनां पङ्क्तियोगिपङ्क्तिः 'तत्पुरुषः' / तया योगि० / नभसि सीदन्तीति नभःसदः 'तत्पुरुषः' / नभःसदां सभा नभःस० 'तत्पुरुषः' / असुराणां आली असुराली 'तत्पुरुषः' / नभःसत्सभा च असुराली च तौ नभःसत्सभासुराल्यौ ‘इतरेतरद्वन्द्वः' / नभःसत्सभासुरालीभ्यां नतौ नभःस० 'तत्पुरुषः' / नभःसत्सभासुरालीनतौ पादौ यस्याः सा नभःस० 'बहुव्रीहिः' / / इति काव्यार्थः / / 33 / / सि० वृ०-तवाभिवृद्धिमिति / दया-कृपा करुणेतियावत् विद्यते यस्य स दयावान्, तस्य सम्बोधनं हे दयावन् !-दयायुक्त ! प्राणिन् ! स सुविधिः-सुविधिनामा जिनः तव-भवतः अभिवृद्धिं-अभ्युदयं विधेयात्क्रियादित्यर्थः / विपूर्वक ‘डुधाञ् धारणपोषणयोः' इति धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'दादेः' (सा० सू० 957) इत्यनेनाकारस्यैकारः / तथाच 'विधेयात्' इति सिद्धम् / अत्र 'विधेयात्' इति क्रियापदम् / कः कर्ता ? / 'सुविधिः' सुष्ठु-शोभनं विधानं-क्रियाचरणादिकं यस्य सः / कां कर्मतापन्नाम् ? / अभिवृद्धिम् / कस्य ? / तव / 'तव मम ङसा' (सा० सू० 337) इति युष्मदः पष्ठ्येकवचने तवादेशः / कथंभूतः सुविधिः ? / 'भासुरालीनतपाः' भासुरं-अंग्र्यं आलीनं-आदृतं तपःअनशनादिकं येन स तथा / ‘अत्वसोः सौ' (सा० सू० 294) इति दीर्घत्वम् / पुनः किं कुर्वन् ? / 'अवन्' अवति-रक्षतीत्यवन् / प्राणिगणानिति गम्यम् / षट्कायाभयदानदायकत्वादिति भावः / यत्तदोरभिसम्बन्धात् स कः ? / यः सुविधिः योगिपङ्क्तया-मुनिपरम्परया प्रणतः-प्रणामविषयीकृतः / अत्रापि ‘प्रणतः' इति क्रियापदम् / कया का ? / 'योगिपङ्क्त्या ' योगश्चित्तवृत्तिनिरोधलक्षणो विद्यते येषां ते योगिनस्तेषां पक्तिः -परम्परा तया / “आपरमाणुदर्शिनो योगिनः” इति न्यायविद: / कः कर्मतापन्नः ? / यः / कथंभूतया योगिपङ्क्त्या ? | ‘नभःसत्सभासुरालीनतपादया' नभसि सदो येषां ते नभःसदो-देवास्तेषां सभा-पर्षत् च असुराली च असुराणां-भवनपतिदेवविशेषाणां आली-श्रेणी च ताभ्यां नतौ पादौ यस्याः सा तथा तया, नभःसत्सभा च असुराली च नभःसत्सभासुराली ‘इतरेतरद्वन्द्वः' / “वीथ्यालिरावलिः पङ्क्तिः , श्रेणी लेखास्तु राजयः” इत्यमरः (श्लो० 656) / / 33 / / सौ० वृ०-यश्चन्द्रवत् सौम्यः स चन्द्रप्रभो भवति, स शोभनविधिरेव भवति / अनेन संबन्धेनायातस्य नवमश्रीसुविधिजिनेन्द्रस्य स्तुतिव्याख्यानमाख्यायते-तवाभिवृद्धिमिति /