________________ श्रीसविधिजिनस्तुतयः 139 9. श्रीसुविधिजिनस्तुतयः अथ श्रीसुविधिनाथाय प्रार्थना.. तवाभिवृद्धिं सुविधिविधेयात् . स भासुरालीनतपा दयावन् ! / यो योगिपतिया प्रणतो नभःसत्___ सभासुरालीनतपादयाऽवन् // 1 // 33 // - उपजातिः (1) ज० वि०-तवाभिवृद्धिमिति / हे दयावन् !-दयासमन्वित ! प्राणिन् ! स सुविधिः-सुविधिनामा जिनः तव-भवतः अभिवृद्धिं-अभ्युदयं विधेयात् इति क्रियाकारकप्रयोगः / अत्र ‘विधेयात्' इति क्रियापदम् / कः कर्ता ? 'सुविधिः' / कां कर्मतापन्नाम् ? 'अभिवृद्धिम्' / कस्य ? 'तव' / कथंभूतः सुविधिः ? 'भासुरालीनतपाः' भासुरं-घोरं आलीनं-आश्रितं तपः-अनशनः-अनौदर्यादिरूपं येन स तथा / किं कुर्वन् ? 'अवन्' रक्षन् / प्राणिगणानित्यध्याहृत्य गम्यते / यत्तदोरभिसंबन्धात् स कः ? यः सुविधिः योगिपङ्क्तया-मुनिपरम्परया प्रणतः-प्रणिपतितः / अत्रापि ‘प्रणतः' इति क्रियापदम् / कया का ? 'योगिपङ्क्तया' कः कर्मतापन्नः ? 'यः' / कथंभूतया योगिपङ्क्त्या ? 'नभःसत्सभासुरालीनतपादया' नभःसदो देवाः तेषां सभा-पर्षत् असुराली-दैत्यसन्ततिः ताभ्यां नतौ पादौ यस्याः सा तथा तया / /